________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १०।
८१
तत्र सतोऽपि सामान्यस्यानिबन्धो यथा-मालत्या वसन्ते, पुष्पफलस्य चन्दनद्रुमेषु, फलस्याशोकेषु । द्रव्यस्य यथा-कृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य । गुणस्य यथाकुन्दकुङमलानां कामिदन्तानां च रक्तत्वस्य, कमलमुकुलप्रभृतेश्च हरितत्वस्य, प्रियङ्गुपुष्पाणां च पीतत्वस्य । क्रियाया यथा-दिवा नीलोत्पलानां विकाशस्य, निशानिमित्तस्य शेफालिकाकुसुमानां विनंसस्य । ___ एतत्पद्ये 'वाक्' पदस्थाने 'वाणी' पदं 'संपृक्तौ' इत्यस्य स्थाने 'संभिन्नौ' इति, 'पितरौ' इत्यस्य स्थाने 'जनको' इति च प्रक्षिप्य 'पार्वती-परमेश्वरौ' इति चतुर्थचरणस्थाने 'शर्वाणी-शशिशेखरौं' इति च निवेश्य पदपरावृत्त्यभ्यासः । पदस्य स्याद्यन्तस्य श्लोकचरणस्य वा परावृत्तिरिति व्युत्पत्त्या तस्योभयरूपतयाऽग्रिमश्लोक उभयोदाहरणं यथा
"वाण्यर्थाविव संभिन्नौ, वाण्यर्थप्रतिपत्तये ।
__ जगतो जनकौ वन्दे, शर्वाणी-शशिशेखरौ ॥” इति । [ ] महाकाव्यार्थचर्वण-परकृतकाव्यपाठौ क्रियारूपौ इति न तयोरिहोदाहतुं योग्यत्वम् । एवमन्यान्यपि ग्रन्थान्तरेषूक्तानि कवित्वसम्पादकानि कवित्वेप्सुना परिशीलनीयानि । तदयमवसितो हरणोपजीवनसमस्याद्यभ्यासविचारः, यश्च पदन्याससामोपजननायोपयुक्तः ॥
साम्प्रतं पूर्वमुक्तः “सतोऽप्यनिबन्धः' इत्यादिरूपः कविसमयो वैशयेन निरूपणीयः, मयं च यद्यपि सूत्रे पूर्वमुपात्त इत्यस्यैव निरूपणमावश्यकमासीत् तथापि सूची-कटाहन्यायेन पूर्वमुपजीवनाद्येवोपनिबद्धमित्युक्तं प्रागेव । तत्र क्रमशः प्रागुक्तजात्यादीनामनिबन्धनादि पृथक् पृथग् वक्तुमुपक्रमते-तत्र सतोऽपि सामान्यस्येत्यादिना, सतः-लौकिकनियमेन विद्यमानस्याऽपि, सामान्यस्यजातेः, किञ्चिजातीयवस्तुन इत्यर्थः, अनिबन्धः-निबन्धनाभावोऽसत्त्वेन निबन्धनं वा, यथा मालत्या वसन्ते इति-वसन्ते सत्या अपि मालतीजातेः कविभिस्तस्यास्तत्राभावो निबध्यते, सा वा तस्मिन् समये न वर्ण्यते । यथा"मालतीविमुखश्चैत्रो विकासी पुष्पसंपदाम् । आश्चर्य जातिहीनस्य कथं सुमनसः प्रियाः ॥" [का० मी० अ० १४] इति,
का०६
For Private And Personal Use Only