________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने हतविधिललितानां-दुर्दैवचेष्टितानां, विपाकः-परिपाकः, तत्तत्प्राणिकर्मानुरूपफलदानप्रकारः, विचित्रः-विविधः, न त्वेकविध इत्यर्थः । हीति विस्मये । विधिविपाकवैचित्र्याजगद्वैचित्र्यं युज्यत इति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥
एषां त्रयाणां श्लोकानां, प्रथमस्य प्रथमं द्वितीयस्य द्वितीयं तृतीयस्य तुरीयं च पादमादाय पादत्रयात्मिकायाः समस्याया इव तृतीयचरणनिवेशेन रचिता पूर्तियथा
"किमपि किमिह दृष्टं स्थानमस्ति श्रुतं वा, घनकपिलजटान्तर्धान्तगङ्गाजलौघः । निवसति स पिनाकी यत्र यायां तदस्मिन्
हतविधिललितानां ही विचित्रो विपाकः॥" [का० मी. अ० ११] अर्थः-इह किमपि-अवर्णनीयं, स्थानं दृष्टं श्रुतं वा अस्ति किम् ?, यत्र धनकपिलजटान्तर्धान्तगङ्गाजलौधः स पिनाकी निवसति । तन्न किं कार्यम् ? तदाहतत् अस्मिन् यायाम् , कुत इदं वैराग्यमिति चेदत्राह-हतविधिललितानां विपाको विचित्रो हीति । व्याख्यात एवास्याधिकोंऽशः पूर्वत्र, तथा च विचित्र विधिविपाकविस्मितो भीतो वाऽहं तादृशं स्थानं यातुमिच्छामि, तत्र च न तस्य प्रभुत्व. मिति भावः । अन्न पद्ये यद्यपि एक एव पादः स्वीयः, तथापि नेदं हरणमिति प्रतीयते, अपितु विभिन्नाभिप्रायेण प्रथक् पद्येषु निक्षिप्तानामेकेन नवीनेन चरणेन सह घटमानोऽन्वयोऽधिकं चमत्करोति सचेतसां चेतांसि।
चूडामणौ "समस्यापूरणाद्याः शिक्षाः” इत्युक्तम् , तत्राद्यपदेन वाक्यार्थशून्यवृत्ताभ्यासपदपरावृत्यभ्यास-महाकविकाव्यार्थभावना, सत्कविकवितापाठाश्च संगृह्यन्ते । तत्र वाक्यार्थशून्यवृत्तरचना यथा
"आनन्दसन्दोहपदारविन्दकुन्देन्दुकन्दोदितबिन्दुवृन्दम् ।
इन्दिन्दिरान्दोलितमन्दमन्दनिष्यन्दनन्दन्मकरन्दवृन्दम् ॥” इति । . अत्र केवलं वृत्तानुगुणानां शब्दानामेव संघटना कृता, नार्थविचारदृष्टिरिति प्रथमतः प्रवृत्तस्य कवीभवितुमिच्छोरिदम् । पुरातनपद्येषु पदपरावृत्त्यभ्यासो यथा---
"वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वती-परमेश्वरौ ॥” [ रघु० १-१]
For Private And Personal Use Only