________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू०१०। ७९ ___ अर्थः-रजनिविरहभीत:-रात्रिसमयागमनाशङ्कितप्रियाविप्रयोगकातरः, मत एव वराकः-दयास्पदम्, चक्रवाकः-प्रसिद्धः पक्षिविशेषः, 'इह किमपि तादृशं स्थानं दृष्टं श्रुतं वा अस्ति किम् ? यत्र दिनकरोऽस्तं न व्रजति' इत्थं विहगसार्थान् आपृच्छमानो भ्रमति, विहगा हि दिग्विदिक्षु दूरतरं गच्छन्तीति सम्भाव्यते तैस्तादृशस्थानस्य दर्शनं श्रवणं वेति विचार्य तस्मिन् ज्ञाते तत्र गतस्य निशाभावात् प्रियासम्प्रयोगः सर्वदा भवत्वित्याशया स पृच्छतीति ॥ अपरं च
"जयति सितविलोलव्यालयज्ञोपवीती, घनकपिलजटान्तर्धान्तगङ्गाजलौघः । अविदितमृगचिह्नामिन्दुलेखां दधानः,
परिणतशितिकण्ठः श्यामकण्ठः पिनाकी ॥” [का० मी० अ० ११] अर्थः-सिताः-श्वेताः, विलोलाः-चञ्चलाः, व्याला एव-सा एव यज्ञोपवीतं यस्य सः, तथा धना-निबिडा, कपिला-पिशङ्गा या जटा तस्या अन्तः-मध्ये भ्रान्तः-कृतपरिभ्रमणो गङ्गाजलस्य ओघः-प्रवाहो यस्य सः; एवम्-अविदितो मृगचिह्नो यस्यामीहशीम्, इन्दुलेखां-चन्द्रशकलं दधानः, किञ्च परिणतः-वृद्धो यो शितिकण्ठः-नीलकण्ठपक्षी, तद्वत् श्यामः कण्ठो यस्य सः; पिनाकी-पिनाकधनुर्भूत् शिवः, जयति; अत्र 'परिणतशितिकण्ठः श्यामकण्ठः' इत्यसमस्तः पाठोऽप्युपलभ्यते, स च नाञ्जस्येनान्वयं लभत इत्युपेक्षितः ॥ अन्यच्च
"कुमुदवनमपश्रि श्रीमदम्भोजखण्डं, त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं, हतविधिललितानां ही विचित्रो विपाकः ॥"
[शि० व० स० ११ श्लो० ६४ ] अर्थः- कुमुदानां वनम् , अपश्रि-अपगता श्रीर्यस्मात् तादृशं, निःशोभमित्यर्थः; अम्भोजानां खण्डं-वनम् , श्रीमत्-कान्तियुक्तम् ; उलूक:-पेचकः, मुद-हर्ष त्यजति, दिवा भीतत्वात् तस्य; चक्रवाकः प्रीतिमान् , रजनीजनितप्रियाविरहावसानादिति भावः; अहिमरश्मिः-उष्णांशुः सूर्यः, उदयं याति-उदेति शीतांशुः-शीतकिरणश्चन्द्रः, अस्तं याति । कुत एतद् वैषम्यमिति चेदत्राह
For Private And Personal Use Only