SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने "मदमन्थरमातङ्गकुम्भपाटनलम्पटः । दैवे पराङ्मुखे हन्त; [मृगात् सिंहः पलायते]॥" [ ] इति, अर्थः-पदेन-दानेन, मन्थराणाम्-अलसगतीनां, मातङ्गानां-गजानां, कुम्भस्य मस्तकस्य, पाटने-विदारणे, लम्पटः-साहसिकः, सिंहः, दैवे पराङ्मुखे सति, मृगादपि पलायते, मृगात् सिंहस्य भीतिरिह पलायनशब्दवाच्या, तत्र मत्तवारणकुम्भदारणपटोरस्य सिंहस्य मृगाद् भीतिरनुपपद्यमानतयोपपत्तिचिन्तार्थ समस्यारूपत्वेनोपनिबद्धा, सुचतुरेण कविना सर्ववैपरीत्यकारिदैवपराङ्मुखीभावेनोपपादितेति तत्पूर्तिः। द्वितीयस्य यथा “सीतासमागमोत्कण्ठाकर्णान्ताकृष्टधन्वनः । ___राघवस्य शराङ्गारैः, [ समुद्राद् धूलिरुत्थिता ॥"[ ] इति । अर्थः-सीतायाः समागमाय या उत्कण्ठा तया कर्णपर्यन्तमाकृष्टं धनुर्येन तस्य राघवस्य, शररूपैः, अङ्गारैः, शोषितात् समुद्रादपि धूलिः, उत्थितेति । अगाधजलमध्याद् धूलेरुत्थानमसंभवीति तदुपपादनाय रामस्य समुद्रपारगमनाय क्रोधेन समुद्रशोषणार्थ शरक्षेपरूपो हेतुरुपात्तः । पादद्वयसमस्या यथा-"चव्य-चित्रक-नागरैः," "लङ्कायां रावणो हतः," इति द्वितीय-चतुर्थों पादौ, शेषांशः पूरणीयः, स चेत्थम् "मुमूर्षो ! किं तवाद्यापि [चव्य-चित्रक-नागरैः] । स्मर नारायणं येन, [लङ्कायां रावणो हतः] ॥"[ ] इति, पादाविमावसम्बद्धाविव प्रतीयमानौ, अतो मुमूर्षुजनोपदेशप्रकरणमाश्रित्य प्रथम-तृतीयपादयोः प्रक्षेपेण सर्वेषां पादानां सम्बन्धः स्थापितः । अयमर्थःहे मुमूर्षों ! अद्यापि मृत्योरासत्तिसमयेऽपि, तव, चन्य-चित्रक-नागरैः-एत्तनाना प्रसिद्धौषधद्रव्यैः, किम् ?-वृथा त्वत्कृते एतेषामुपयोगः, एतत्सेवनं विहाय, नारायणं स्मर-रामं चिन्तय, येन लङ्कायां रावणो हत इति । समस्यापूर्तिवत् भिन्नार्थकानां विभिन्नपद्यत्रयगतानां त्रयाणां पादानामेकेन पादेनार्थसमन्वयनं नाम चमस्कृतिकृत् कवित्वं, तथाहि "किमपि किमिह दृष्टं स्थानमस्ति श्रुतं वा, ब्रजति दिनकरोऽयं यत्र नास्तं कदाचित् । भ्रमति विहगसार्थानिस्थमापृच्छमानो, रजनिविरहभीतश्चक्रवाको वराकः ॥" [का० मी० म० ११] For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy