________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १० ।
भाषावदनादृतमिति विज्ञाते च हरण छन्नं स्यादित्येतानि कारणानि हरणायोपयुक्तानीति । तथा च एतास्ववस्थासु हरणमौचित्यं नातिकामति । तथा चोक्तं राजशेखरेण
"नास्त्यचौरः कविजनो, नास्त्यचौरो वणिग्जनः । स नन्दति विना वाच्यं, यो जानाति निगूहितम् ॥ उत्पादकः कविः कश्चित् , कश्चिच्च परिवर्तकः । आच्छादकस्तथा चान्यस्तथा संवर्धकोऽपरः ॥ शब्दार्थोक्तिषु यः पश्येदिह किञ्चन नूतनम् । उल्लिखेत् किञ्चन प्राच्यं मन्यतां स महाकविः ॥"
[का० मी० अ० ११] प्रायः कवयो वणिजश्चांशतश्चौर्यरता एव, स एव विना वाच्यं नन्दति-स एवं निन्दया मुच्यते, आनन्दमवाप्नोति च, यश्चौर्य छादयितुं जानाति, कवीनां चौर्यच्छादनस्योपायाश्च पूर्वमुक्ता एव, तेषां कवीनां च पञ्च भिदाः, तथाहि-उत्पादकः, परिवर्तकः, आच्छादकः, संवर्धकः, महाकविरिति च । एषु चतुर्णा नामानुसारमेव लक्षणानि, विज्ञेयानि । यश्च किञ्चन नूतनं पश्येत् , किञ्चिञ्च प्राच्यमपि वैचित्र्येण उल्लिखेत् , स महाकविरिति मन्यतामिति । __ अयमत्र निष्कर्षः--यच्चौर्यमुद्वेगकरं तदेव निन्दितम्, किन्तु वाटिकासु विकसितानां मञ्जरीणां कुसुमावलीनां च गन्धं यदनुहरति पवनः, न तन्निन्द्यते, तपतो दिवाकरस्य तेज आतपे प्रसारितानि वस्त्राणि यदाददति, न तदाक्रोशमर्हति, एवं यत्र शब्दस्यार्थस्य वाऽनुद्वेगकरेण प्रकारेण हरणं तदनिन्दितमेवेति, अलमतिप्रसक्तानुप्रसत्तेन, विस्तरेप्सुभिराकरग्रन्था अवलोकनीयाः ॥
उपजीवनपदसम्बद्धादिपदेन समस्यापूरणाद्या ग्राह्यत्वेनोक्ताः, तत्र समस्यापरीक्ष्यकविशक्तिजिज्ञासया पूरणीयत्वेनोदाहृतः साकाङ्क्ष: शब्दसन्दर्भः, तस्याः पूरणं-अवशिष्टांशनिर्माणेन आकासितार्थपूर्तिकरणम् , तद् आद्यं प्रथमं यासु ताः शिक्षापदवाच्या इत्यर्थः ।
सा च समस्या 'पादसमस्या, पादद्वयसमस्या' इत्यादिरूपा, तत्र पादसमस्या यथा-"मृगात् सिंहः पलायते” इति, “समुद्राद् धूलिरुत्थिता" इति च, एतौ चतुझे पादौ, ताववलम्ब्य प्रत्येकं पादत्रयकल्पना, यथा प्रथमस्य
For Private And Personal Use Only