SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १ सू० १० । 5 अर्थः- या इयं - साक्षादृश्यमाना, शङ्खेन द्रावितानां केतकोदरदलानां - केतकीलतापुष्प मध्यभागस्थपत्राणां, स्रोतसः - प्रवाहस्य, श्रियं -शोभां बिभ्रती, चन्द्रिका प्राक् - शशिनो मौग्ध्ये, मौक्तिकानां दानो - माल्यस्य, गुम्फनविधेः-निर्माणक्रियायाः, योग्या छविर्यस्यास्तथाभूता अभूत् - अल्पीयसी आसीत्, सा शशिनि अमुग्धविभवे सति-प्रौढप्रकाशे सति, कलसीभिः - घटैः, उत्सेक्या- उपरि सेचनीया, ततोऽल्पत्वे अञ्जलिपुटैर्ब्राह्या, ततोऽत्यल्पत्वे च मृणालस्य- कमलदण्डस्यअङ्कुरैः - अन्तरिछद्रयुतको मलभागैः पातव्या पेया व वर्तते इत्यन्वयः । यथा कस्यचिद् दुग्धादिपदार्थस्य बहुलीभूतस्य यावद् घटपूरणयोग्यता तावद् घटैः पश्चादञ्जलिभिः, अञ्जलेरपि पूरणासम्भवे च केनचित् क्षुद्रेण पात्रेण एकत्रीकरणं. भवति, तथैवेहाऽप्युपचरितमिति ज्योत्स्नायाः कुम्भाद्युपवाह्यत्वं स्फुटम् ॥ अत्र तमसि मुष्टिग्राह्यत्व - सूचीभेद्यत्वयोज्योत्स्नायां कुम्भोपवाह्यत्वस्य च यद्यपि गुणरूपत्वमित्यसतो गुणस्य सत्त्वेन निबन्धनप्रस्तावे उपन्यासो युक्तस्तथापि काव्यमीमांसादावप्यसतो द्रव्यस्यैवोपनिबन्धनमिदमुदाहृतमिति स्थितस्य गतिचिन्तनीयेति रीत्याऽत्र गुणवाचकपदस्य गुणिपरत्वमा स्थेयमिति प्रतीमः ॥ असतो गुणस्य सत्त्वेनोपनिबन्धो यथा - यशसि हासे च शौक्लयस्य, अयशसि पापे च कार्यस्य, क्रोधा - ऽनुरागयो रक्तत्वस्य चासत उपनिबन्धः । तत्र यशसः शौक्क्यस्योपनिबन्धो यथा "स्तेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिमध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं कोऽयमीदृक् प्रकारः । इत्थं दिग्भित्तिरोधक्षत विसरतया मांसलैस्वद्यशोभिः, स्तोकावस्थानदुःस्थैत्रिजगति धवले विस्मयन्ते मृगाक्ष्यः ॥” [ का० मी० अ० १५ ] www.w ९१ , - अर्थः – दिश एव भित्तयः, ताभिः, रोधः-प्रसरणवारणम्, तेन क्षतः- नष्टः, विसरः- प्रसरणं यासां तासां भावो दिग्भितिरोधविसरता तया, मांसलै:पुञ्जीभूतैः, अत एव स्तोके - अल्पेऽवकाशे, अवस्थानं स्थितिः, तेन दुःस्थैःपर्याकुलीभूतैः स्वयशोभिः - स्वदीयकीर्तिभिः, विजगति लोकत्रये, धवले - दुग्धवत् स्वच्छे संजाते सति, भङ्गे स्तोकोऽपि स्तेमः- भार्द्रता न, श्वसितं -श्वास व्यापारः, अविकलं - पूर्ववदविच्छिन्नम् चक्षुषां सैव - अविकलेव, भव्याहतैवेति यावत् > For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy