________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
59
योज्यवेदभागानां संबंधिनां ब्राह्मणादीनां ज्ञाता। याजनाध्यापनाभ्यां। करणाभ्यासाभ्यां। श्रेयःप्रशस्यतरमनपुत्रादिमोक्षांतं फलं । अधिगळतीति पाठादाधिक्येन गच्छति लभते । अथाहं निंदति ॥
४. एताभ्यां याजनाध्यापनाभ्यामनेवंविदः सानुक्रमण्यज्ञस्यैव पुनयातयामानि । यातः प्राप्नो यामः फलरक्षाविषयमौदासीन्यं यैस्तानि यातयामानि । नास्य तारका वेदा इत्यर्थः । अथवा यातयामो जीणे भुक्तोलिष्टेऽपि चेति निघंटौ । जीर्णे भुक्तोच्छिष्टे वानादौ वर्तते । यातयामशब्दो नीरसत्वादिसाम्याच्छंदःसु वर्तते । छंदांसि वेदाः । भवंति संपद्यते ॥ ___५. सत एवानेवंवित स्थाणुं वृक्षादिनातिमृच्छति प्राप्नोति । वा खलु । गर्ने नरके कूपे पंकवारिमध्ये मास्यमंडूककच्छपादिनातिषु पात्यते । अधश्चाल्पते । कैः । देवैः । यद्देवा देवहेलनम्। अपभती रपसो दैव्यस्येति श्रुतेः। प्रमीयते वा । कदाचिदपि न वेदोक्नमायुर्भजते । उक्तं हि । अनभ्यासेन वेदानामाचारस्य च वर्जनात् ।
सालस्यादवदोपाञ्च मृत्युर्विप्रानियांसति ॥ इति भगवता मनुना । पापीयान भवतीति । दस्युम्लेच्छादिजातिषु जायते । इति विज्ञायते । इत्येवं सामवेदायब्राह्मण साम्नातं । विज्ञायते विशेषेण ज्ञायतेऽवगम्यते सर्वमहर्षिभिः ॥
सतो महर्षयः सर्वे वेदविदो इति स्थिताः।
अधीयते कर्शयंति देहं मृत्यु न भुंजते ॥ इति सानुक्रमण्यारंभः समर्थितः॥
२,१. अथेति प्रस्तावे। सामान्येनर्पयः प्रस्तूयते । अथ अषय इति । ऋत्यकः ॥ २. आद्यमंडलस्था ऋषयः शर्चिन इति संज्ञिताः । ऋचां शतं शत५ । आद्यस्यर्षेक्शतयोगेन धन्विन्यायेन शतर्चिनः सर्वे । प्राधिकेऽपि शतोक्तिबर्बाहुल्यात् ॥ उक्तं हि। शर्चिसंज्ञा विज्ञेया याद्यमंडलदर्शिनः।
ददर्शादौ मधुच्छंदा बाधिकं यदृचां शतं ॥ तत्साहपर्यादन्येऽपि विज्ञेयास्तु शर्चिनः ।
अच्छवाछन्त्रिणैकेन यथा वै छन्त्रिणोऽभवन् ॥ नासदासीयात् पूर्व महासूक्तं परं क्षुद्रसूक्तं । सूक्लदर्शित्वादत्ये दशमे मंडले स्थिता ऋषयः शुद्रसूक्तमहासूक्तनामानः । द्वितीयादिनवमांतेषु मध्यमेषु मंडलेषु स्थिता माध्यमनामान ऋषयः॥
३. पथ परिभाषते । एवंभूतस्यगोत्रानुक्तो तमांगिरसं विद्यात् सर्वानक्रमणीजिज्ञासुरवगच्छेत् । ब्रह्मर्षिमिति । अश्वमेधनृमेधतरंतपुरुमीळ्हादिराजर्षिनाममु मा भून् । प्रस्त्रियमिति ।
1 WI; अरसौ रक्षा I 2, P2 ; उपरामो रक्षा PI; उपरमः फलरक्षा I 4. 2 Not in Yaska's Nighantu. वेदैः WI, I4; दोषैः I 2, P1, P2. 4 Ath.-veda VI, II4. • Rigv. II, 33, 7. Manuv, 4. 'Arsheya Br. I, I; see M.M., A.S. L., p. 226, note 2. Pan.VI, i, 128. Rigv.x, 129.
For Private And Personal Use Only