________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya, Shri Kailassagarsuri Gyanmandir
॥३९॥
SRICACADS
| नामसहिता भवति ततः सा कथं मिथ्यादृष्टौ प्राप्यते ? उच्यते-इह कश्चित् नरकेषु बद्धायुष्कः पश्चात्सम्यक्त्वं प्राप्य तन्निमित्तं तीर्थकरनामकर्म बद्धा नरकाभिमुखः सन् सम्यक्त्वं त्यक्त्वा मिथ्यादृष्टिर्जातः, ततो नरके उत्पन्नः सन् अन्तर्मुहूर्तानन्तरं पुनरपि सम्यक्त्वं 3 सत्ता प्रतिपद्यते, ततोऽन्तर्मुहर्त कालं यावत् षण्णवतिमिथ्यादृष्टौ प्राप्यते, आहारकसप्तकतीर्थकरनामसत्कर्मा च मिथ्यात्वं न प्रतिपद्यते । प्रकृतिसत्क| उक्तं च-"उभए संति न मिच्छो" इति । ततस्युत्तरशतं मिथ्यादृष्टौ न प्राप्यते । तथा द्वयोः सासादनसम्यमिथ्यादृष्टिगुणस्थान
मस्थान
स्वामित्वं कद्वयोर्से द्वे प्रकृतिसत्कर्मस्थाने, तद्यथा-दयुत्तरशतं पश्चनवतिश्च । तथा पञ्चसु अविरतसम्यग्दृष्टिगुणस्थानकप्रभृतिषु अपूर्वकरणगुणस्थानकान्तेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि । तद्यथा-व्युत्तरशतं, द्वयुत्तरशतं, षण्णवतिः पञ्चनवतिः। शेषाणि क्षपकश्रेण्यामेकेन्द्रियादौ च संभवन्तीति कृत्वा इह न प्राप्यन्ते । तथा द्वयोरनिवृत्तिबादरसूक्ष्मसंपरायलक्षणयोर्गुणस्थानकयोरष्टकं अष्टौ प्रकृतिसत्कमस्थानानि । तद्यथा-श्युत्तरशतम् , द्वयुत्तरशतम् , षण्णवतिः, पञ्चनवतिः, नवतिः, एकोननवतिः, श्यशीतिः, द्वयशीतिश्च । तत्रानिवृ. त्तिबादरस्यादिमानि चत्वारि उपशमश्रेण्यां क्षपकश्रेण्यां वा यावन्न प्रयोदशकं क्षीयते । शेषाणि पुनः क्षपकश्रेण्यामेव । सूक्ष्मसंपरायस्थादिमानि चत्वारि उपशमश्रेण्याम् , शेषाणि तु क्षपकश्रेण्याम् । तथा त्रिषु उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्रोपशान्तमोहे इमानि चत्वारि,तद्यथा-व्युत्तरशतम् , द्वयुत्तरशतम् , पण्णवतिः, पञ्चनवतिः । | क्षीणमोहसयोगिकेवलिनोः पुनरमूनि, तद्यथा-नवतिः, एकोननवतिः, व्यशीतिः, यशीतिश्च । 'छ त्तु अजोगम्मि ठाणाणि'त्ति-अयो |गिकेवलिनि षट् प्रकृतिसत्कर्मस्थानानि, तद्यथा-नवतिः, एकोननवतिः, व्यशीतिः, यशीतिः, नव, अष्टौ चेति । एतेषामादिमानि
॥३९॥ चत्वारि अयोगिकेवलिद्विचरमसमयं यावत् , चरमसमये तु तीर्थकरातीर्थकरौ प्रतीत्य द्वे अन्तिमे प्रकृतिसत्कर्मस्थाने ॥१५॥
NCDA
For Private and Personal Use Only