________________
Shri Mahavir Jain Aradhana Kendra
3030
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खीणं ताव दोन्नि संतं । गोयस्स जाव एगं न खीणं उब्वलियं वा ताव दोन्नि संतं, णीयागोते खविते उच्चागोए वा उव्वलीए एगं संतं, तहा दोन्नि एगंति दो संतद्वाणाणि भवंति ॥ १० ॥
( मलय ० ) - तदेवमुक्त मे कैकप्रकृतिसत्कर्म । संप्रति प्रकृतिस्थान सत्कर्मप्ररूपणार्थमाह । 'पढम' त्ति - प्रथमचरमयोर्ज्ञानावरणान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं स्थानम् । तच्च क्षीणकषायचरमसमयं यावत् सत्, परतोऽसत् । तथा द्वितीये दर्शनावरणीये त्रीणि प्रकृतिस्थानानि, तद्यथा- पद् नव चतस्रः । तत्र सकलदर्शनावरणीयप्रकृतिसमुदायो नव । ताश्थ नव प्रकृतय उपशमश्रेणिमधिकृत्य उपशान्त| मोहगुणस्थानकं यावत् सत्यः । क्षपकश्रेणिमधिकृत्य पुनरनिवृत्तिबादरसंपरायाद्धाया यावत् संख्येया भागास्तावत्सत्यः, परतः स्त्यानर्द्धित्रिकक्षये षट् भवन्ति । ताच तावत्सत्यो यावत् क्षीणकषायस्य द्विचरमसमयः । तस्मिन् द्विचरमसमये निद्राप्रचले व्यवच्छिद्येते । | ततश्वरमसमये चतस्र एव सत्यः । ता अपि तत्र व्यवच्छिद्यन्ते । तथा वेदनीयायुर्गोत्राणां द्वे प्रकृतिस्थाने, तद्यथा-द्वे एका च । तत्र | वेदनीयस्य यावदेकं न क्षीणं तावत् द्वे सत्यौ, एकस्मिंस्तु क्षीणे एका । गोत्रस्य यावदेकं न क्षीणं उद्वलितं वा तावत् द्वे सत्यौ । नीचगत्रे क्षपिते उच्चगोत्रे वा उद्वलिते पुनरेका सती। आयुषस्तु यावद्वद्धमायुर्नोदेति तावत् द्वे प्रकृती सत्यौ । उदिते तु तस्मिन् प्राक्तनं क्षीणमिति एका प्रकृतिः ॥ १० ॥
(उ० )—तदेवमुक्तमेकैकप्रकृतिसत्कर्म, सम्प्रति प्रकृतिस्थानसत्कर्मप्ररूपणार्थमाह-प्रथमचरमयोर्ज्ञानावरणान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं स्थानं, तच्च क्षीणकषायचरमसमयं यावत्सत्, परतोऽसत् । तथा द्वितीये दर्शनावरणीये त्रीणि प्रकृतिस्थानानि तद्यथापटू नव चतस्रः । तत्र समुदिताः सर्वा दर्शनावरणप्रकृतयो नव, ताश्चोपशमश्रेण्यामुपशान्तमो यावत्सत्यः क्षपकश्रेण्यां त्वनिवृत्तिवां
For Private and Personal Use Only