SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir कर्मप्रकृतिः उदयः ॥२५॥ | जघन्यप्रदेशोदय स्वामित्वं कालं देशोनपूर्वकोटिरूपं यावत्संयममनुपाल्यान्तिमे काले आहारकशरीरी जातः, उद्योतं च वेदयते, तस्याहारकसप्तकस्य जघन्यः | प्रदेशोदयः । चिरकालसंयमपरिपालने हि भूयांसः कर्मपुद्गलाः परिसटिता भवन्तीति कृत्वा चिरकालसंयमग्रहणम् । उद्योतग्रहणे च | कारणं प्रागुक्तमेवानुसतव्यम् ॥३१॥ ___ (उ०)-देवगतिरवधिसमाऽवधिज्ञानावरणस्येव देवगतेरपि जघन्यः प्रदेशोदयो भावनीय इत्यर्थः । नवरं यदोद्योतवेदको भवति 'ताहे'-तदा देवगतेजघन्यः प्रदेशोदयो वाच्यः । कोऽत्र हेतुः? इति चेत् , उच्यते-याचदुद्योतनाम नोदयमास्कन्दति तावत्तद्देवगतौ स्तिबुकसंक्रमेण संक्रम्यते । ततः संक्रमोपनीततद्दलिकानुप्रवेशात्तस्या जघन्यः प्रदेशोदयो नावाप्यते । उदयप्राप्तस्य तूद्योतनाम्नः स्तिबु. कसंक्रमो न भवतीत्युद्योतवेदकग्रहणम् । उद्योतवेदकत्वं च पर्याप्तस्य भवति नापर्याप्तस्येति, पर्याप्तावस्थायां देवगतेजघन्यः प्रदेशोदय | इति सर्तव्यम् । तथा यश्चिरकालं देशोनपूर्वकोटिरूपं यावत्संयममनुपाल्यान्तेऽन्तिमकाले आहारकशरीरी जात उद्योतं च वेदयते स्म, तस्याहारकसप्तकस्य जघन्यः प्रदेशोदयः । चिरकालसंयमानुपालने हि भूयांसः कर्मपुद्गलाः परिशटन्तीति चिरकालसंयमग्रहणं, उद्योत. | ग्रहणे च हेतुः प्रागभिहित एवानुसर्तव्यः ।। ३१॥ सेसाणं चक्खुसमं तंमि व अन्नंमि वा भवे अचिरा । तज्जोगा बहुगीओ पवेययंतस्स ता ताओ ॥३२॥ (चू०)-'सेसाणं चक्खुसम'ति-मणुयगतिवजातो तिन्नि गतीते आहारसत्तगं चत्तारि आणुपुचीतो थावरं |तित्थकरनामं एते सोलसकंमा मोत्तूण अवसेसा णामस्स सत्तासीति कंमा तेसिं सत्तासीते कंमाणं 'चक्खुसमं' ति-चक्खुदसणावरणसरिसा भाणियब्वा जाव एगिदिएसु उप्पन्नो 'तमि व अन्नंमि व भवे अचिरात्ति-तंमि दलदल ॥२५॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy