________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
E-DISE
यासां तास्तिर्यगेकान्तोदयाः एकद्वित्रिचतुरिन्द्रियजातिस्थावरसूक्ष्मसाधारणाख्याः प्रकृतयस्तासां सर्वसङ्ख्यया सप्तदशप्रकृतीनां द्वितीया | तृतीया च गुणश्रेणियंदा शिरसा मिथो मिलति तदा तयोद्वयोर्गुणश्रेणीशिरसोरेकत्र योगे वर्तमानस्य मिथ्यादृष्टेः स्वस्वोदये उत्कृष्टः प्रदेशोदयः । इयमत्र भावना-इह केनचिद्देशविरतेन सता देशविरतिप्रत्यया गुणश्रेणिः कृता, ततः स संयम प्रतिपेदे, ततः संयमप्रत्यया गुणश्रेणिः कृता, ततो यस्मिन् काले द्वयोरपि गुणश्रेण्योः शिरसी एकत्र मिलिते तस्मिन् काले वर्तमानो गुणितकाशः कश्चिन्मिथ्यात्वं गतस्तदा तस्य मिथ्यात्वानन्तानुबन्धिनामुत्कृष्टः प्रदेशोदयः, यदि पुनः सम्यग्निथ्यात्वं गतस्तदा सम्यमिथ्यात्वस्य । स्त्यानचित्रिकस्य तु मिथ्यात्वं गतस्यागतस्य वोत्कृष्टः प्रदेशोदयो वाच्यः, प्रमत्तसंयतेऽपि तत्रयोदयः प्राप्यत इति कृत्वा । तिर्यगुदयकान्तानामपर्याप्तकनाम्नश्च प्राक् प्रवर्तितगुणश्रेणिद्वयस्य सम्यक्त्वादिगुणेभ्यः प्रतिपत्य मिथ्यात्वं गत्वाऽप्रशस्तमरणेन मृता तिर्यग्भवप्राप्तौ सत्यां देशविरतिसर्वविरतिगुणश्रेणीशिरसोरेकत्र योगे स्वखोदये यथायोगं वर्तमानम्योत्कृष्टः प्रदेशोदयः ।।१३।।
अंतरकरणं होहित्ति जायदेवस्स तं मुहुत्तंतो। अट्टण्हकसायाणं छण्डं पि य नोकप्तायाणं ॥१४॥ (०)-उवसमसेढी पडिवन्नस्स से य काले 'अंतरकरणं होहित्ति जायदेवस्स'त्ति उप्पन्नदेवस्स 'तं मुहत्तंतोंत्ति-कालगयसमयातो अंतोमुहुत्तं गंतृण, कहं ? भन्नइ-ततो कालं करेत्तु अंतोमुहुत्तेण गुणसेढीसीसपत्तस्स अप्पचक्खाणावरण४पच्चक्खाणावरणस्स४ वेयतिगवजाणं छण्हं णोकसायाणं एएसिं चोद्दसण्हं कमाणं अप्पप्पणो गुणसेढीसीसवमाणस्स उक्कोसपदेसुदओ ॥१४॥ (मलय०)-'अंतरकरण'ति-इह कश्चित् उपशमश्रेणिं प्रतिपन्नोऽनन्तरसमयेऽन्तरकरणं भविष्यतीति, 'तंति-तस्मिन् पाश्चात्ये समये
k:DCCES
ARC
For Private and Personal Use Only