________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संपादकीया प्रशस्तिः। आसीजगति विख्यातो, विजयानन्दमरिराट् / कुमतकण्टकोद्धारैः, शासनं योऽत्यदीपयत् // 1 // तस्य पट्टधरो जातः, सरिश्रीकमलप्रभुः। दम्भिदम्भविनाशेन, योरक्षजिनशासनम् // 2 // सर्वागमरहस्यज्ञा दैवज्ञा दानसूरीशाः। शास्त्राज्ञास्थापकत्वेन तेषां पट्टमशोमि यैः // 3 // तत्पट्टप्रोदिताचार्य-विजयप्रेमसूरिणा / संशोधितमिदं शास्त्रं क्षाम्यन्तु स्खलितं बुधाः // 4 // जम्बूविजयस्तच्छिष्यो वाचकपदभूषितः। निजगुरुप्रसादेन साहाय्यं सुष्टु दत्तवान् // 5 // वहथङ्कनिधिभूवर्षे पञ्चशिष्यसमन्वितः। सागरसङ्घविज्ञप्तः स्वजनुर्नगरीस्थितः // 6 // ग्रन्थसमाप्तिहर्षेण प्रशस्ति कृतवानिमाम् / आदिजिनकथायुक्तं यथा पण्णत्तिवाचनाम् // 7 // युग्मम् / * दर्भावती-'डभोई इति प्रसिद्धनामा। For Private and Personal Use Only