________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः प्रशस्तिः // 163 // सरिश्रीविजयप्रमे श्रितवति प्राज्यं च राज्यं कृतो, अन्योऽयं वितनोतु कोविदकुले मोदं विनोदं तथा // 2 // सरिश्रीगुरुहीरशिष्यपरिषत्कोटीरहीरप्रभाः, कल्याणाद्विजयामिधाः समभवस्तेजस्विनो वाचकाः / तेषामन्तिपदच लाभविजयप्राज्ञोत्तमाः शाब्दिक-श्रेणिकीर्तितकार्तिकीविधुरुचिप्रस्पर्द्धिकीर्तिप्रथाः॥३॥ तच्छिष्याः स्म भवन्ति जीतविजयाः सौभाग्यमाजो बुधा, भ्राजन्ते सनया नयादिविजयास्तेषां सतीर्थ्या बुधाः। तत्पादाम्बुजभृङ्गपबविजयप्राज्ञानुजन्मा बुध-स्तत्त्वं किचिदिदं यशोविजय इत्याख्याभृदाख्यातवान् // 4 // इदं हि शास्त्रं श्रुतकेवलिस्फुटाधिगम्यपूर्वोद्धृतभावपावनम् / ममेह धीर्वामनयष्टिवद्ययौ तथापि शक्त्यैव विमोरियद्भुवम् // 5 // प्राक्तनार्थलिखनाद्वितन्वतो नेह कश्चिदधिको मम श्रमः। वीतरागवचनानुरागतः पुष्टमेव सुकृतं तथाप्यतः // 6 // // इति काशीविबुधविजयावाप्तन्यायविशारदपद-अपूर्वग्रन्थशतग्रथनप्रभाववितीर्णन्यायाचार्यपदधारक श्रीमद्यशोविजयवाचकपुङ्गवविरचिता कर्मप्रकृतिवृत्तिः॥ KRODAMRO // 16 // For Private and Personal Use Only