________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achana Shri Kailassagarsuri Gyanmandir
DISCENEGA
बन्धायोगात् । तदेवमुक्तो मिथ्यादृष्टेबन्धोदयसत्तासंवेधः। सम्पति सासादनस्य बन्धोदयसत्तास्थानान्युच्यन्ते-सासादनस्य त्रीणि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशश्चेति । तत्राष्टाविंशतिर्दिधा-देवगतियोग्या नरकगतियोग्या (च)। तत्र द्वितीया सासादनस्य बन्धाऽनहीं, आद्यायाश्च बन्धकास्तिर्यपञ्चेन्द्रिया मनुष्याश्च । तस्यां च वध्यमानायामष्टौ भङ्गाः । एकोनत्रिंशतं तिर्यक्षञ्चेन्द्रियप्रायोग्यां मनुध्यप्रायोग्यां वा सासादना एकेन्द्रिया विकलेन्द्रिया तिर्यक्पश्चेन्द्रिया मनुष्या देवा नैरयिकाश्च बध्नन्ति, न शेषाम् , अत्र भङ्गाश्चतुःषष्टि शतानि, तथाहि-द्विविधामप्येकोनत्रिंशतं बघ्नतः सासादना हुण्डं सेवात्तं च न बघ्नन्ति, मिथ्यात्वोदयाभावात् । ततस्तिर्यक्षश्चेन्द्रियपायोग्यामेकोनत्रिंशतं बध्नतः पञ्चभिः संस्थानैः पञ्चभिः संहननैः शुभाशुभखगतिभ्यां स्थिरास्थिराभ्यां शुभाशुभाभ्यां सुभगदुर्भगाभ्यां सुखरदुःखराभ्यामादेयानादेयाभ्यां यशःकीय॑यश-कीर्तिभ्यां च भङ्गा द्वात्रिंशच्छतानि ३२०० । इयन्त एवेत्थं मनुष्यगतिप्रायोग्यामपि | बध्नतः ३२०० । सर्वसंख्यया चतुःषष्टिशतानि। त्रिंशतं च तिर्यपञ्चेन्द्रियप्रायोग्यामेव सोद्योतां सासादना एकेन्द्रिया विकलेन्द्रिया| स्तिर्यपञ्चेन्द्रिया मनुष्या देवा नैरयिका वा बध्नन्ति, न शेषां, तां च बध्नता भङ्गाः प्राग्वत् द्वात्रिंशच्छतानि । सर्वबन्धस्थानभङ्गा
अष्टोत्तराणि पण्णवतिशतानि ९६०८ । सासादनस्योदयस्थानानि सप्त, तथाहि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पविंशतिरेकोन| विंशत्रिंशदेकत्रिंशच । तत्रैकविंशत्युदय एकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुष्यदेवानधिकृत्य, नरकेषु सासादनानुत्पत्तेस्तद्विषयक| विंशत्युदयालाभः । तत्रैकेन्द्रियाणामेकविंशत्युदये बादरपर्याप्तेन सह यशकीय॑यशःकीर्तिभ्यां द्वावेव भङ्गो, न शेषाः, सूक्ष्मेष्वपर्याप्तेिषु | मध्ये सासादनस्यानुत्पादात् । अत एव विकलेन्द्रियाणां तियपञ्चेन्द्रियाणां मनुष्याणां च प्रत्येकमपर्याप्तेन सह य एकैको भङ्गः घास इह न भवति, किंतु शेषा एव । ते च विकलेन्द्रियाणां प्रतिमेदं द्वौ द्वाविति षद्, तिर्यपश्चेन्द्रियाणामष्टौ, मनुष्याणामष्टौ, |
OISION
For Private and Personal Use Only