________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
॥१३५॥
नाम्नः बन्धोदयसत्तास्थानानांसंवेधः
| वैक्रिय कुर्वतां मनुष्याणां त्रिंशद्वर्जानि चत्वार्युदयस्थानानि । त्रिंशद्वर्जन च संयतान्मुक्त्वाऽन्येषां मनुष्याणां वैक्रियमपि कुर्वतामुद्यो। | तोंदयाभावात् । सामान्येनैकोनत्रिंशद्वन्धे सप्त सत्तास्थानानि-त्रिनवतिनिवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च ।। | तत्र विकलेन्द्रियतिर्यकपश्चेन्द्रियप्रायोग्यामेकोनत्रिंशतं बध्नतां पर्याप्तापर्याप्त केन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियाणामेकविंशत्युदये | वर्तमानानां पञ्च पञ्च सत्तास्थानानि-द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । एवं चतुर्विंशतिपञ्चविंशतिषड्विंशत्युदयेष्वपि वक्तव्यम् । सप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशदुदयेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, भावना त्रयोविंशतिबन्धकानां प्राग्यथा कृता तथाऽत्रापि कार्या। मनुजगतिप्रायोग्यामेकोनत्रिंशतं. बध्नतामेकेन्द्रियविकलेन्द्रियतिर्यपञ्वेन्द्रियाणां, तिर्यग्गतिमनुष्यगतिप्रायोग्यां पुनर्वध्नतां मनुष्याणां च स्वस्वोदयस्थानेषु यथायोगं वर्तमानानामष्टसप्ततिवर्जानि तान्येव चत्वारि चत्वारि सत्तास्थानानि । देवनैरयिकाणां तिर्यपञ्चेन्द्रियमनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नतां स्वस्वोदयेषु वर्तमानानां द्वे द्वे सत्तास्थाने द्विनवतिरष्टाशीतिश्चेति । केवलं नैरयिकस्य मिथ्यादृष्टस्तीर्थकरसत्कर्मणो ममुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नतः स्वोदयेषु पञ्चसु यथायोगं वर्तमानस्यैकोननवतिरेवैका वक्तव्या, तीर्थकरनामसहितस्याहारकचतुष्टयरहितस्यैव मिथ्यात्वगमनसंभवात् त्रिनवते. राहारकचतुष्टयेऽपनीते एकोननवतेरेव संभवात् । देवगतिप्रायोग्यामेकोनत्रिंशतं तीर्थकरनामसहितां बध्नतः पुनरविरतसम्यग्दृष्टर्मनुष्यस्यैकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने त्रिनवतिरेकोननवतिश्च । एवं पञ्चविंशतिषड्विंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदुदयेध्वपि एते एव द्वे सत्तास्थाने वाच्ये । आहारकसंयतानां तु स्वस्वोदये वर्तमानानामेकमेव त्रिनवतिरूपं सत्तास्थानं ज्ञेयम् । तदेवं सामान्येनैकोनत्रिंशद्धन्धे एकविंशत्युदये सत्तास्थानानि पञ्च(सप्त),चतुर्विंशत्युदये पञ्च, पञ्चविंशत्युदये सप्त, षड्विंशत्युदये सप्त, सप्तविंश
केवलं नैरयिकस्य पन्द्रियमनुष्यगतिप्रायोग्यायोग वर्तमानानामष्टसमान
॥१३५॥
For Private and Personal Use Only