SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ORRESPOTSkeet2 चत्वारि क्षपकश्रेण्यां प्रकृतित्रयोदशकक्षये । उपशान्तमोहे तु प्रथमसत्तास्थानचतुष्कमेव । क्षीणमोहे सयोगिकेवलिनि च द्वितीयसत्ता| स्थानचतुष्कमेव । अयोगिकेवलिनि च षट् सत्तास्थानानि द्वितीयसत्तास्थानचतुष्कं नवाष्टौ च, तत्र द्वितीयसत्तास्थनचतुष्कं नानाजीवापेक्षया द्विचरमसमयं यावत् , चरमसमये तु तीर्थकरातीर्थकरावधिकृत्य नवाष्टाविति । तदेवं गुणस्थानेष्वभिहितानि सत्तास्थानानि । ___ अथ बन्धोदयसत्तास्थानानां परस्परं संवेध उच्यते-तत्र त्रयोविंशतिबन्धे पञ्चविंशतिबन्धे षड्विंशतिबन्धे च प्रत्येकं नव नवो | | दयस्थानानि पश्च पश्च सत्तास्थानानि । तत्र त्रयोविंशतिबन्धोऽपर्याप्तैकेन्द्रियप्रायोग्य एव, तद्भन्धकाश्चैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यपञ्चन्द्रिया मनुष्याच। एतेषां त्रयोविंशतिबन्धकानां यथायोगं सामान्येन नवोदयस्थानानि, तद्यथा-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षट्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशत् । तत्रैकविंशत्युदयोऽपान्तरालगतौ वर्तमानानामेकेन्द्रियद्वी|न्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यपञ्चन्द्रियमनुष्याणां ज्ञेयः,तेषामपर्याप्तकैकेन्द्रियप्रायोग्यबन्धसंभवात् । चतुर्विंशत्युदयोऽपर्याप्तपर्याप्त केन्द्रि याणां,अन्यत्र चतुर्विंशत्युदयस्याप्राप्यमाणत्वात् । पञ्चविंशत्युदयः पर्याप्तैकेन्द्रियाणां चैक्रियतिर्यमनुष्याणां च मिथ्यादृष्टीनाम् । षड्विंश| त्युदयः पर्याप्लकेन्द्रियाणां पर्याप्तापर्याप्तद्वित्रिचतुरिन्द्रियतिर्यपश्चेन्द्रियमनुष्याणां च मिथ्यादृष्टीनाम् । सप्तविंशत्युदयः पर्याप्त केन्द्रियाणां वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनाम् । अष्टाविंशत्येकोनविंशत्रिंशदुदयाः पर्याप्तद्वित्रिचतुरिन्द्रियाणां तिर्यपञ्चेन्द्रियमनुष्याणां च मिथ्यादृष्टीनाम् । एकत्रिंशदुदयो विकलेन्द्रियतिर्यपञ्चेन्द्रियाणां मिथ्यादृष्टीनाम् । उक्तशेषास्त्रयोविंशतिबन्धका न भवन्ति । तेषां त्रयोविंशतिवन्धकानां सामान्येन पञ्च सत्तास्थानानि,तद्यथा-द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्रैकविंशत्युदये वर्तमानानां सर्वेषामपि पश्चापि सत्तास्थानानि । नवरं मनुष्याणामष्टसप्ततिवर्जानि चत्वारि, यतोऽष्टसप्ततिर्मनुष्यद्विके उद्वलिते प्राप्यते,न च मनुष्याणां तदु ORDC6COMEDA For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy