________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GESikkGE
१ विंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशद्रपेषु षट्सूदयस्थानेषु द्विनवतिरष्टाशीतिश्चेति द्वे द्वे सत्तास्थाने वाच्ये । अपर्याप्तविकलेन्द्रिय-1 तिर्यपञ्चन्द्रियमनुष्यप्रायोग्यां तु पञ्चविंशतिं देवा न बध्नन्ति, अपर्याप्तेषु विकलेन्द्रियेषु च मध्ये देवानामनुत्पादात् । सामान्येन पञ्चविंशतिबन्धे षड्विंशतिबन्धे च प्रत्येकं नवाप्युदयस्थानानि प्रतीत्य चत्वारिंशच्चत्वारिंशत्सत्तास्थानानि । तथाऽष्टाविंशतौ वध्यमानायामष्टावुदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच । इहाष्टा-17 विंशतिद्वैधा-देवगतिप्रायोग्या नरकगतिप्रायोग्या च, तत्र देवगतिप्रायोग्याया बन्धेऽष्टावप्युदयस्थानानि नानाजीवापेक्षया प्राप्यन्ते, नरकगतिप्रायोग्यायास्तु बन्धे त्रिंशदेकत्रिंशच्चेति द्वे । तत्र देवगतिपायोग्याष्टाविंशतिबन्धकानामेकविंशत्युदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चन्द्रियतिर्यङ्मनुष्याणामपान्तरालगतौ वर्तमानानामवसेयः, न मिथ्यादृष्टेः, यतो भवादौ सर्वपर्याप्ति-18 | पर्याप्त एव मिथ्यादृष्टीदेवगतिप्रायोग्याऽष्टाविंशतिबन्धकः । एकविंशतिपञ्चविंशतिषविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशदुदयवर्ती चापर्याप्त एवेति । वैक्रियतिर्यङ्मनुष्याणां च पञ्चविंशत्याधुदये वर्तमानानां मिथ्यादृष्टीनां यद्देवगतिप्रायोग्याष्टाविंशतिबन्धकत्वं वक्ष्यते तद्भवादौ पूरितपर्याप्तिकस्यापि पश्चाद्वैक्रियाङ्गनिष्पत्तिकाले औदारिकादितनुनिवृत्तौ पर्याप्युदयनिवृत्तिमभिप्रेत्येत्यदोष इति स्मर्त्तव्यम् । पञ्चविंशत्युदय आहारकसंयतानां वैक्रियतिर्यङ्मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । षड्विंश-12 त्युदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चन्द्रियतिर्यङ्मनुष्याणां शरीरस्थानाम् । सप्तविंशत्युदय आहारकसंय तानां वैक्रियतिर्यङ्मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा। अष्टाविंशत्येकोनत्रिंशदुदयावपि यथाक्रमं शरीरपर्याच्या पर्याप्तानां तिर्यङ्मनुष्याणां क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तथाऽऽहारकसंयतानां, वैक्रियतिर्यङ्मनुष्याणां तु सम्यग्दृष्टीनां
PRODGCODEOS
For Private and Personal Use Only