________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः ॥१३३॥
GESED
दलनसंभवः । चतुर्विशत्युदयेऽपि पञ्च सत्तास्थानानि, केवलं वायुकायिकस्य वैक्रिय कुर्वतश्चतुर्विशत्युदये वर्तमानस्याशीत्यष्टसप्ततिवर्जानि | त्रीणि वाच्यानि, यतस्तस्य वैक्रियषट्कं मनुष्यद्विकं च नियमादस्ति, यतोऽसौ वैक्रियद्विकं साक्षादनुभवत्येवेति न तदुद्द्लयति, तद-10
नाम्नः
बन्धोदयभावाद्देवद्विकनरकद्विके अपि नोद्वलयति, तथास्वाभाव्येन वैक्रियषट्कस्य समकालमुद्वलनसंभवात् , वैक्रियषट्के चोदलिते सति पश्चा- II
सत्तास्थान्मनुष्यद्विकमुद्वलयति, न पूर्व, ततोऽष्टसप्तत्यशीतिसत्तास्थानासंभवः । पञ्चविंशत्युदये पश्चापि सत्तास्थानानि, तत्राटसप्ततिरवैक्रियवा
नानांसंवेधः युकायिकतेजस्कायिकानधिकृत्य प्राप्यते, नान्यान् , यतस्तेजस्कायिकवायुकायिकव|ऽन्यः सर्वोऽपि पर्याप्तको नियमान्मनुष्यगतिमनुप्यानुपूच्यों बध्नाति, ततोऽन्यत्राष्टसप्ततिन प्राप्यते । षड्विंशत्युदयेऽपि पश्चापि सत्तास्थानानि, तत्राष्टासप्ततिरवैक्रियवायुकायिकतैजसकायिकानां द्वित्रिचतुःपञ्चेन्द्रियाणां वा तेजोवायुभवादनन्तरमागतानां पर्याप्तापर्याप्तानां, ते हि यावन्मनुष्यगतिमनुष्यानुपूयौँ न बध्नन्ति तावत्तेषामष्टसप्ततिः प्राप्यते, नान्येषाम् । सप्तविंशत्युदयेऽष्टसप्ततिवर्जानि चत्वारि सत्तास्थानानि, सप्तविंशत्युदयो हि तेजोवायुवर्जपर्याप्तबादरैकेन्द्रियवैक्रियतिर्यअनुष्याणां, तेषु चावश्यं मनुष्यद्विकसंभवादष्टसप्तति वाप्यते । अथ कथं तेजोवायूनां सप्तविंशत्युदयो न भवति येन तद्वर्जनं क्रियते ? उच्यते-सप्तविंशत्युदय एकेन्द्रियाणामातपोद्योतान्यतरप्रक्षेपे भवति, न च तेजोवायुष्यातपोद्योतोदय-14 | संभव इति तद्वर्जनम् । अष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशदुदयेषु नियमादष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, अष्टाविंशत्या
द्यदया हि पर्याप्तविकलेन्द्रियतिर्यक्षश्चेन्द्रियमनुष्याणां, एकत्रिंशदुदयश्च पर्याप्तविकलेन्द्रियाणां पञ्चेन्द्रियतिरश्चां च, ते चावश्यं | मनुजद्विकसत्कर्माण इति । तदेवं त्रयोविंशतिबन्धकानां यथायोग नवाप्युदयस्थानान्यधिकृत्य चत्वारिंशत्सत्तास्थानानि भवन्ति । पञ्चविंशतिषविंशतिबन्धकानामप्येवमेव, नवरं पर्याप्त केन्द्रियपञ्चन्द्रियप्रायोग्यपञ्चविंशतिषड्विंशतिबन्धकानां देवानामेकविंशतिपञ्च
For Private and Personal Use Only