SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achana Shri Kailassagersuri Gyanmandie अथ नाम्नः सत्तास्थानान्युच्यन्ते, तानि च द्वादश, तत्र सर्वनामप्रकृतिसमुदायः पिण्डः, स त्रिनवतिप्रमाण इहाधिक्रियते, तथाविवक्षणात् , तत्प्रथमं सत्तास्थानम् । तस्मिंस्तीर्थकरोने द्विनवतिप्रकृत्यात्मकं द्वितीयम् । आहारकशरीराहारकोपाङ्गाहारकबन्धनाहारकस-14 वातरूपप्रकृतिचतुष्टयहीने च तस्मिँस्तृतीयमेकोननवतिप्रकृत्यात्मकम् । तीर्थकराहारकचतुष्टयोभयविहीने च तस्मिन्नष्टाशीतिप्रकृत्यात्मकं 12 चतुर्थम् । इदं प्रथमं सत्तास्थानचतुष्कम् । तस्मात्प्रकृतित्रयोदशके क्षीणेऽशीत्येकोनाशीतिषट्सप्ततिपञ्चसप्ततिलक्षणं द्वितीयं सत्तास्थानचतुष्कं भवति । ततोऽष्टाशीतेः सुरद्विके नरकद्विके वोद्वलिते पडशीतिः। अष्टाशीतक्रियचतुष्टयदेवद्विकनरकद्विकंषदलितेष्वशीतिः। ततो मनुष्यद्विके उद्वलितेऽष्टसप्ततिः । एतानि वीण्यपि सत्तास्थानानि अध्रुवसंज्ञानि । तथा नवकं सत्तास्थानमष्टकं च। यद्यप्येवं | गणनया त्रयोदश सत्तास्थानानि प्राप्नुवन्ति तथाप्यशीत्यात्मकं सत्तास्थानं द्विप्रकारमपि तुल्यसंख्यत्वादेकमेव विवक्ष्यत इत्यदोषः । तदेवं द्वादशापि सत्तास्थानानि सप्ततिकाभिप्रायेण व्याख्यातानि, प्रकृतग्रन्थाद्यभिप्रायेण तु व्युत्तरशतादीनि व्याख्येयानि । अत्र यात्र| योदश प्रकृतयः क्षीणाः सत्यो द्वितीयचतुष्कनिष्पादिकास्ता इमाः-स्थावरद्विकं तिर्यग्द्विकमातपमेकद्वित्रिचतुरिन्द्रियजातयः साधारणं | नरकद्विकमुद्योतं चेति, एतास्वाद्या दश एकान्ततिर्यग्योग्या इष्यन्ते, तथात्वं चोदयमुदीरणां चाश्रित्य द्रष्टव्यं, बन्धसत्तापेक्षया तासा१५ मन्येषामपि योग्यत्वात् । एतेष्वध्रुवसत्तास्थानस्वामिन उच्यन्ते-पृथिव्यम्बुवनस्पतिषु षडशीत्यशीत्यात्मके द्वे अध्रुवसत्तास्थाने प्राप्येते, १२ तृतीयं त्वष्टसप्तत्यात्मकं तेजोवायुषु प्राप्यते, नान्येषु, तेषामेव मनुष्यद्विकोद्वलकत्वात् , अथवा तेजोवायुभ्य उद्धृत्यैकेन्द्रियादिषु । तिर्यपञ्चेन्द्रियपर्यन्तेषु समागतस्य कियत्कालं लभ्यते यावन्नाद्यापि मनुष्यद्विकं बध्नाति, तेजोवायुभ्य उद्धृत्य मनुष्यादिषु गमना-1 थासम्भवात् तिर्यक्षश्चेन्द्रियपर्यवसानानुधावनम् । अथ गतिषु सत्तास्थानानि प्ररूप्यन्ते, तत्र नरकगतौ त्रीणि सत्तास्थानानि-द्विनवतिरेको- | 6GRODKAR TOL For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy