________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः
॥११०॥
प्र
sac
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विंशतिः, अनादि मिध्यादृष्टेर्वा षट्विंशतिरिति । अथ गुणस्थानेषु सत्तास्थानानि चिन्त्यन्ते - मिध्यादृष्टिगुणस्थाने त्रीणि सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिः पविंशतिश्च यतो मिध्यादृष्टिः सम्यक्त्वमिश्रयोरुद्वलको भवति । ससादने एकं सत्तास्थानमष्टाविंशतिः । मिश्रे त्रीणि सत्तास्थानानि-अष्टाविंशतिश्चतुर्विंशतिः सप्तविंशतिश्व, तत्र चतुर्विंशतिर्विसंयोजितानन्तानुबन्धिनि सम्यग्दृष्टौ मिश्रत्वं प्रपन्ने, | सप्तविंशतिश्चोद्वलितसम्यक्त्वपुञ्जे मिथ्यादृष्टौ तद्भावं प्रपन्ने द्रष्टव्या । तथाऽविरतदेशविरतप्रमत्ताप्रमत्तेषु प्रत्येकं पञ्च सत्तास्थानाअष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिर्द्वाविंशतिरेकविंशतिश्च । अपूर्वकरणे त्रीणि, तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिश्च । अनिष्ट|तिवादरसम्पराये एकादश सत्तास्थानानि तद्यथा - अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिस्त्रयोदश द्वादशैकादश पञ्च चतस्रस्तिस्रो द्वे एका च । सूक्ष्मसम्पराये चत्वारि सत्तास्थानानि, तद्यथा - अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिरेका च । उपशान्तमोहगुणस्थानके त्रीणि सत्तास्थानानि तद्यथा - अष्टाविंशतिः चतुर्विंशतिरेकविंशतिश्च । तदेवमुक्तानि सप्रपञ्चं मोहनीयस्य सत्तास्थानानि ।
अथ बन्धोदयसत्तास्थानानां संवेधश्चिन्त्यते - तत्र द्वाविंशतिबन्धे मिथ्यादृष्टेः सप्तोदयेऽष्टाविंशतिलक्षणमेकमेव सत्तास्थानं भवति । कथमिदं प्रत्येयमिति चेत्, उच्यते - सप्तोदयोऽनन्तानुबन्धिराहित्ये संभवति, तद्रहितश्च मिध्यादृष्टिरवश्यमष्टाविंशतिसत्कर्मा, येन हि पूर्व सम्यग्दृष्टिना सताऽनन्तानुबन्धिन उद्वलिताः ततश्च स कालान्तरे परिणामवशान्मिथ्यात्वं गतः तत्प्रत्ययेन चानन्तानुबन्धिनो बध्नाति तदाऽसौ मिध्यादृष्टिबन्धावलिकामात्रं कालं यावदनन्तानुबन्ध्युदयरहितः प्राप्यते, नान्यः, स चाष्टाविंशतिसत्कर्मेति तस्य सत्तास्थान| मष्टाविंशतिरेव | अष्टनवदशकोदये चाष्टाविंशतिसप्तविंशतिषविंशतिलक्षणानि त्रीणि सत्तास्थानानि, तथाहि - अष्टोदयो द्विधाऽनन्तानुबन्ध्युदयरहितस्तत्सहितश्च तत्रानन्तानुबन्ध्युदयरहिते प्रागुक्तयुक्तेरष्टाविंशतिरेव सत्तास्थानं, तत्सहिते तु त्रीण्यपि सत्तास्थानानि ।
For Private and Personal Use Only
2
मोहस्यसत्तास्था
नानि
॥११०॥