________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणस्थाने
गुणस्थानेषु मोहस्य सत्तास्थानानि
सत्तास्थानानि २८-२७-२६
२८-२७-२४ २८-२४-२३-२२-२१ " " " " "
RODODeseakaka
तदेवमुक्तानि मोहनीयस्योदयस्थानानि । अथ सत्तास्थानान्युच्यन्ते-मोहनीयस्य सत्तास्थानानि पञ्चदश, तथाहि-अष्टाविंशतिः सप्तविंशतिः षड्विंशतिश्चतुर्विंशतिस्त्रयोविंशतिाविंशतिरेकविंशतिस्त्रयोदश द्वादशैकादश पञ्च चतस्रस्तिस्रो द्वे एका चेति । एतेषामेव | सत्तास्थानानां गुणस्थानेषु व्यवच्छेदश्चिन्त्यते-अविरतादयोअमत्तान्ता अनन्तानुबन्धिमिथ्यात्वमिश्रसम्यक्त्वानां क्षपका भवन्ति | ततस्तेषु सप्तकं कियत्कालं प्राप्यते, परतः सर्वथा न भवति । तथाऽनिवृत्तिबादरसम्परायः प्रथम युगपन्मध्यमाष्टकपायान् विनाशयति, ततो नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषद्कं, ततः पुरुषवेदं, ततः क्रमेण त्रीन् क्रोधमानमायारूपान् संज्वलनान्, सूक्ष्मसम्परायस्तु किट्टीकृतं लोभं विनाशयति । अनेन व्यवच्छेदक्रमेण चतुर्विशत्यादीनि द्वादश सत्तास्थानानि व्याख्यातानि भवन्ति। त्रीणि चैवं भाव्यानि-सर्वप्रकृतिसमुदायोऽष्टाविंशतिः, ततः सम्यक्त्वे उद्वलिते सप्तविंशतिः, ततः सम्यमिथ्यात्वे उद्वलिते पं-12
DADDODCOM
२८-२४-२१-१३-१२-११-५-४-३-२-१ |
१२मे
१३मे
१४मे
For Private and Personal Use Only