________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Su
&CKEDORADIO
तद्वन्धश्चाद्यगुणस्थानद्वयं यावत् । ता एव नव प्रकृतयः स्त्यानचित्रिकरहिताः षड् भवन्ति, उद्वन्धश्च मिश्रगुणस्थानादारभ्यापूर्वकरणगुण स्थानस्य प्रथमभागं यावत् । ता एव षद् प्रकृतयो निद्रामचलाहीनाश्चतस्रः, तद्वन्धश्चापूर्वकरणगुणस्थानप्रथमभागार्व सूक्ष्मसम्परायं यावत् । सत्तास्थानान्यपि दर्शनावरणस्य त्रीणि, नव षट् चतस्रश्चेति । तत्र क्षपकश्रेणिमधिकृत्यानिवृत्तिवादरसम्परायाद्यभागं यावन्नव सत्यः । तत उध्वं तु स्त्यानदि त्रिके क्षीणे षट् प्रकृतयः, ताश्च क्षीणमोहद्विचरमसमयं यावत्सत्यः। द्विचरमसमये निद्राप्रच लयोः सत्ताध्यवच्छेदे चतस्रः सत्यः, ताश्च क्षीणमोहचरमसमय एव क्षीयन्ते । उपशमश्रेण्यां तु नवापि प्रकृतय उपशान्तमोहगुणस्थानं | यावत्सत्यः । अत्र नवबन्धस्थाने कालमधिकृत्य भङ्गत्रयं, तथाहि-तदनाद्यनन्तमनादिसान्तं सादिसान्तं चेति । तत्रानाद्यनन्तमभव्यानां, तेषां कदापि नवविधधन्धव्यवच्छेदासंभवात् । अनादिसान्तं भव्यानां, तेषां कालान्तरे नवविधबन्धव्यवच्छेदसंभवात् । सादिसान्तं सम्यक्त्वात्पतितानां द्रष्टव्यं, तच जघन्येनान्तर्मुहूर्त कालं यावत् उत्कर्षतो देशोनार्धपुद्गलपरावत्तं यावत् । तथा पदप्रकृत्यात्मकस्य बन्ध-17 स्थानस्य निरन्तरं बध्यमानत्वेनावस्थानमुत्कर्षतो वे षषष्टी सागरोपमाणां, अन्तरा सम्यग्निथ्यात्वान्तरितस्य सम्यक्त्वस्यैतावन्तं कालं | यावदवस्थानसंभवात् , तत ऊर्य तु कश्चित् क्षपकश्रेणिं प्रतिपद्यते, कश्चित्तु मिथ्यात्वं, मिथ्यात्वप्रतिपत्तौ चावश्यं नैवविधो बन्ध इति, जघन्येन चान्तर्मुहूर्त्तम् । चतुर्विधवन्धस्थानं जघन्येनैकं समयं उत्कर्षतोऽन्तर्मुहर्त्तम् । तत्रोपशमश्रेण्यामपूर्वकरणद्वितीयभागे चतुर्विधवन्धमारभ्यानन्तरसमये कश्चित्कालं करोति, कालं च कृत्वा दिवं गतः सन्नविरतो भवति, अविरतत्वे च पविषबन्ध इति चतुर्विधबन्धस्थानस्यैकसामयिकी स्थितिरुत्कण त्वान्तौतिकी, अपूर्वकरणद्वितीयभागादारभ्य सूक्ष्मसम्परायान्तस्यापि कालस्यान्तर्मुहूर्तप्रमाणत्वात् । तथा नवप्रकृत्यात्मकं दर्शनावरणस्य सत्तास्थानं कालमधिकृत्य द्विधा-अनाद्यनन्तमनादिसान्तं च । अनायनन्तमभव्यानां, कंदा-10
k GESARICKGROR
For Private and Personal Use Only