SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ORDINAROADSEEDS ताणि चेव फड़गाणि तहा चेव णेयब्वाणि । के ते? भण्णति-तेरसनाम णवनामउच्चागोयसातासातविरहिया |णामगोयाकम्मा बासीती, तेसिं कम्माणं एगेण ऊणाणि फड्डुगाणि भवंति ॥४९॥ __ (मलय०)-'सेलेसित्ति । शैलेशी अयोग्यवस्था, तस्यां सत्ता यासां प्रकृतीनां ताः शैलेशीसत्ताकाः, ताश्च द्विधा, तद्यथा-उदयः | | वत्योऽनुदयवत्यश्च । तत्रोदयवत्यो मनुष्यगतिमनुष्यायुःपञ्चेन्द्रियजातित्रससुभगादेयपर्याप्तबादरयशकीर्तितीर्थकरोच्चैर्गोत्रसातासातान्यतरवेदनीयरूपा द्वादश । तासां प्रकृतीनां तेनायोगिकालेन तुल्यानि स्पर्धकानि एकैकेनाधिकानि भवन्ति, अयोगिकाले यावन्तः | समयास्तावन्ति स्पर्द्धकानि एकेनाधिकानि भवन्तीत्यर्थः । कथमिति चेद् , उच्यते-अयोगिकेवलिनश्चरमसमये क्षपितकमांशमधिकृत्य | यत्सर्वजघन्य प्रदेशसत्कर्मस्थानं तत् प्रथम स्थानम् । तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीय प्रदेशसत्कर्मस्थानम् । एवं नानाजीवापेक्षया एकैकप्रदेशवृद्ध्या तावत्प्रदेशसत्कर्मस्थानानि द्रष्टव्यानि यावद्गुणितकमाशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं, इदमेकं स्पर्धकम् । तत एवमेव द्वयोः स्थित्योः शेषीभूतयोद्वितीयं स्पर्धकं, तिसृषु स्थितिषु तृतीयम् । एवं निरन्तरं तावदवगन्तव्यं यावदयोगिप्रथमसमयः। तथा सयोगिकेवलिचरमसमये चरमस्थितिखण्डसत्कं चरमप्रक्षेपमादिं कृत्वा यावदात्मीयं सर्वोत्कृष्ट प्रदेशसत्कर्म तावदेतदपि सकलखस्वस्थितिगतमेकैकं स्पर्धकं द्रष्टव्यम् । ततोऽयोगिकेवलिगुणस्थानके यावन्तः समयास्तावन्ति स्पर्धकानि एकाधिकानि उदयातीनां प्रकृतीनां प्रत्येकं भवन्ति । शेषाणां त्वनुदयवतीनां प्रकृतीनां त्र्यशीतिसंख्यानां तावन्ति स्पर्धकान्येकेन हीनानि भवन्ति । यतस्ता अयोगिकेवलिचरमसमये उदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रम्यन्ते । ततस्तासां चरमसमयगतं सर्धकं न प्राप्यत इति तेन हीनानि | तासां स्पर्धकानि भवन्ति । इह यद्यपि मनुष्यगत्यादीनां 'एग उब्वलमाणी' इत्यनेन ग्रन्थेन प्रागेव स्पर्धकारूपणा कृता तथापि इहापि For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy