________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
N
NCHE
कर्मप्रकृतिः ॥८॥
द्वितीयं स्पर्धकम् । तिसृषु स्थितिषु शेषीभूतासु तृतीयं स्पर्धकम् । एवं क्षीणकषायाद्धासमीकृते सत्कर्मणि यावन्तः स्थितिविशेषास्तावन्ति स्पर्धकानि वाच्यानि । चरमस्य च स्थितिघातस्य चरमं प्रक्षेपमादौ कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धानि सत्ता | तावद्वक्तव्यानि यावदात्मीयमात्मीयं सर्वोत्कृष्टं प्रदेशसत्कर्म तावदेतदपि सकलनिजनिजस्थितिगतं यथासंभवमेकैकं स्पर्धकं द्रष्टव्यम् ।।
प्रदेशसत्क
मस्थान. ततस्तेनाधिकानि स्थितिघातव्यवच्छेदात् परतः क्षीणकषायाद्धासमयसमानि स्पर्धकानि भवन्ति । निद्राप्रचलयोस्तु द्विचरमस्थितिम-16
प्ररूपणा | धिकृत्य स्पर्धकानि वाच्यानि, चरमसमये तद्दलिकस्याप्राप्यमाणत्वाम् । तत एकेन हीनानि तस्य स्पर्धकानि द्रष्टव्यानि ॥४८॥ | (उ०)-अथ मोहनीयवर्जानां घातिकर्मणां स्पर्धकनिरूपणार्थमाह-क्षीणकषायस्य स्थितिखण्डव्यवच्छेदात् परतो यः शेषः कालस्तिष्ठति स्वसंख्येयभागलक्षणस्तत्समयसमानि स्पर्धकानि घातिकर्मणामेकाधिकानि भवन्ति । निद्राप्रचलयोस्तु हित्वा परित्यज्यैकं चरमस्थितिगतं स्पर्धकं शेषाणि वाच्यानि, निद्राप्रचलयोयुदयाभावात् स्वरूपेण चरमसमये दलिक न प्राप्यते, किं तु परप्रकृतिरूपेण, | तेन तयोरेकस्पर्धकं चरमस्थितिगतं त्यज्यते, शेषघातिकर्मणां तूदयवत्वात्तन्न परित्यज्यते । अधिकृतस्पर्धकभावना चेयम्-क्षीणकषाया
द्धायाः संख्येयेषु भागेषु गतेषु सत्स्वेकस्मिँश्च संख्येयतमेऽन्तर्मुहूर्तप्रमाणे भागेऽवतिष्ठमाने ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकानां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं क्रियते, निद्रापचलयोस्त्वेकसमयहीनं, तदानीं च स्थितिघातादयो | निवर्त्तन्ते, ततः क्षीणकषायाद्धासमीकृतं स्थितिसत्कर्म यथायोगमुदयोदीरणाभ्यां क्षयमुपगच्छत्नावस्थितिविशेषतामापद्यते यावदेका) स्थितिः शेषीभवति । तस्यां च क्षपितकाशस्य यत्सर्वजघन्यं प्रदेशसत्कर्म तत्प्रथमं प्रदेशसत्कर्मस्थानम् , तत एकस्मिन् परमाणौ प्रक्षिप्ते ॥८॥ द्वितीयं, परमाणुद्वयप्रक्षेपे तृतीयं, एवमेकैकपरमाणुवृद्धया निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकांशस्य सर्वो
For Private and Personal Use Only