SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie www.kobatirth.org कर्मप्रकृतिः DISPOR चरमसमये प्रामुक्तक्षपितकाशप्रकारेण सर्वजघन्यं यत्प्रदेशसत्कर्मस्थानं तदादि कृत्वा नानाजीवानपेक्ष्य यथायोगमुत्तरोत्तरवृद्धया निर|न्तरं प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्योत्कृष्ट प्रदेशसत्कर्मस्थानम् । तावन्ति तानि द्वितीय स्पर्धकम् । अथवा सत्ता यावत्प्रथमा स्थितिद्धितीया च स्थितिर्विद्यते तावदेकं स्पर्धकं, द्वितीयस्थितौ च चरमसंछोमेन क्षीणायां प्रथमस्थितौ समयमात्रायां शेषी प्रदेशसत्क मस्थानभूतायां द्वितीयं स्पर्धकम् । एवमेव प्रकारद्वयेन स्त्रीवेदस्यापि स्पर्धकद्वयं भावनीयम् । पुरुषवेदे तु स्पर्धकद्वयमित्थं भावनीयम्-उदय प्ररूपणा चरमसमये जघन्य प्रदेशसत्कर्म आदि कृत्वा नानाजीवापेक्षयकैकपरमाणुवृद्धथा निरन्तरं प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्योत्कृष्ट प्रदेशसत्कर्मस्थानम् , एतानि च सर्वाण्यनन्तानि, एतान्येकं स्पर्धकम् । तथोदयचरमसमये द्वितीयस्थितौ चरमखण्डे | | संक्रम्यमाणे सर्वजघन्यप्रदेशसत्कर्मस्थानमादि कृत्वा प्राग्वद्वितीयं स्पर्धकं वाच्यम् । किंच 'अहिगा पुरिसस्सेत्यादि'-पुरुषवेदस्याधिकान्यपि स्पर्धकानि भवन्ति । कियन्तीति चेद्,उच्यते-द्वे आवलिके द्विसमयहीने, प्रथमायास्तृतीयार्थत्वात् द्विसमयहीनाम्यां द्वाभ्यामावलिकाभ्यां गुणितानि, योगस्थानैः कृत्स्नैः-तृतीयायाः प्रथमार्थत्वात् कृत्स्नानि योगस्थानानि, आवलिकाद्विकसमयैर्व्विरूपहीनैर्गुणिता यावन्तः सकलयोगस्थानसमुदायास्तावन्ति स्पर्धकान्यधिकानि भवन्ति, समयद्वयहीनावलिकाद्विकसमयप्रमाणान्यधिकानि भवन्ती| त्यर्थः । तथाहि-पुरुषवेदस्य बन्धोदयादिव्यवच्छेदे जाते सति समयद्वयोनावलिकाद्विकबद्धं दलिकं विद्यते । ततोऽवेदकस्य सतः | संज्वलनत्रिकोक्तप्रकारेण योगस्थानान्यपेक्ष्य समयदयहीनावलिकाद्वयसमयप्रमाणानि स्पर्धकान्युपपद्यन्ते । इदं च द्वितीयस्थितिप्रका-2 ||७५|| राभिधानमेव द्रष्टव्यं (इदं च प्रकारान्तराभिधानाभिप्रायेण द्रष्टव्यं), "दो इगि संतं हवा पप" इति पञ्चसङ्ग्रहप्रतीकस्य "अथवा एते द्वे स्पर्धके द्रष्टव्ये, यावत्प्रथमा स्थितिद्वितीया च स्थितिर्विद्यते तावदेकं स्पर्धकम् , प्रथमस्थितौ द्वितीयस्थितौ वाऽपरस्थितिक्षये शेषी DDOceae For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy