________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः
॥७४॥
इ 22hDa
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विकप्पो दरिसिओ तहा चैव भाणियव्वं । 'गुणिया जोगट्टाणेहिं कसिणेहिं ति एवं जोगट्ठाणाणि दोहिं आवलियाहिं दुसमयऊणाहिं पडुप्पन्नाणि एत्तियाणि अवेयगस्स फडगाणि लब्भंति ॥४६॥
(मलय ० ) - 'वेसु 'ति । 'वेदेषु' स्त्री वेदपुरुषवेदनपुंसक वेदेषु प्रत्येकं द्वे द्वे स्पर्धके भवतः । कथमिति चेत्, उच्यते कश्चिञ्जन्तुरभवसि - द्धिकप्रायोग्यजघन्य प्रदेश सत्कर्मा त्रसेषु मध्ये समुत्पन्नः । तत्र देशविरतिं सर्वविरतिं च बहुशो लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमय्य द्वात्रिंशदधिकं च सागरोपमाणां शतं यावत्सम्यक्त्वमनुपालयाप्रतिपतितसम्यक्त्वो नपुंसकवेदेन क्षपकश्रेणिमारूढः । ततो नपुंसकवेदस्य प्रथमस्थितौ द्विचरमसमये वर्तमाने उपरितनस्थितिखण्डमन्यत्र संक्रमितम् । तथा सति उपरितनी स्थितिः सर्वात्मना निर्लेपीकृता । ततः प्रथमस्थितौ चरमसमये सर्वजघन्यं यत् प्रदेशसत्कर्म तत् प्रथमं प्रदेशसत्कर्मस्थानम् । तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीयं प्रदेशसत्कर्मस्थानम् । परमाणुयप्रक्षेपे च तृतीयम् । एवं नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या प्रदेशसत्कर्मस्थानानि अनन्तानि तावद्वाच्यानि यावगुणित कर्माशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । इदमेकं स्पर्धकम् । ततो द्वितीयस्थितौ चरमखण्डे संक्रम्यमाणे चरमसमये पूर्वोक्तप्रकारेण सर्वजघन्यं यत् प्रदेशसत्कर्मस्थानं तत् आदि कृत्वा नानाजीवापेक्षया यथासंभवमुत्तरोत्तरवृद्धया निर| न्तरप्रदेश सत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । तानि द्वितीयं स्पर्धकम् । अथवा यावत्प्रथमा स्थितिर्द्वितीया च स्थितिर्विद्यते तावदेकं स्पर्धकम् । द्वितीयस्थितौ च क्षीणायां प्रथमस्थितौ शेषीभूतायां समयमात्रायां द्वितीयं स्पर्ध| कमिति । एवं प्रकारद्वयेन स्त्रीवेदस्यापि स्पर्धकद्वयं भावनीयम् । पुरुषवेदस्य पुनः स्पर्धकद्वयमेवं भावनीयम् - उदयचरमसमये जघन्यं | प्रदेशसत्कर्म आदि कृत्वा नानाजीवापेक्षया एकैकपरमाणुवृद्धया निरन्तरं प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्यो
For Private and Personal Use Only
सत्ता प्रदेशसत्कर्मस्थानप्ररूपणा
॥७४॥