SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CONGSOMEOHDC चतुःसमयात्मिकायामतीतायां अन्यया चतु:समयात्मिकया आवलिकया अन्यत्र संक्रम्यमाणं चरमसमये बन्धादिव्यवच्छेदचरमसम| यरूपे सर्वथा स्वरूपेण न प्राप्यते, अन्यत्र सर्वात्मना संक्रमितत्वात् । सप्तमे समये यबद्धं तच्चतुःसमयात्मिकायामावलिकायामतिका न्तायामन्यया चतुःसमयात्मिकया अन्यत्र संक्रम्यमाणं बन्धादिव्यवच्छेदानन्तरसमये स्वरूपेण न प्राप्यते, सर्वात्मनाऽन्यत्र संक्रमित| त्वात् । शेषषष्ठादिसमयबद्धं तु प्राप्यते । ततो बन्धादौ व्यवच्छिन्ने सति अनन्तरसमये समयद्वयोनावलिकाद्विकबद्धमेव सत् प्राप्यते, | | नान्यदिति । तत्र बन्धादिव्यवच्छेदसमये जघन्ययोगिना सता यद्रद्धं तस्य बन्धावलिकायामतीतायामन्यया आवलिकयाऽन्यत्र संक्र-Y म्यमाणस्य चरमसमये यत् संक्रमयिष्यति न तावत्संक्रमयति तत् संज्वलनक्रोधस्य जघन्यं प्रदेशसत्कर्मस्थानम् । एवं द्वितीययोगस्थानवर्तिना बन्धादिव्यवच्छेदसमये यदद्धं तस्यापि दलिकं चरमसमये द्वितीयं प्रदेशसत्कर्मस्थानम् । एवं तावद्वाच्यं यावदुत्कृष्टयोगस्थानवर्तिना सता बन्धादिव्यवच्छेदसमये यद्वद्धं तस्य दलिकं चरमसमये सर्वोत्कृष्टमन्तिमं प्रदेशसत्कर्मस्थानम् । एवं जघन्यं योगस्थान- | मादिं कृत्वा यावन्ति योगस्थानानि भवन्ति तावन्ति प्रदेशसत्कर्मस्थानान्यपि चरमसमये प्राप्यन्ते, इदमेकं स्पर्धकम् । एवं बन्धादि| व्यवच्छेदद्विचरमसमये जघन्ययोगादिना यद्वध्यते तत्रापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भावनी| यानि । केवलं स्थितिद्वयभावीनि तानि प्रतिपत्तव्यानि, बन्धादिव्यवच्छेदचरमसमये बद्धस्यापि दलिकस्य तदानीं द्विसमयस्थितिकस्य 6 प्राप्यमाणत्वात् । इदं द्वितीय स्पर्धकम् । एवं बन्धादिव्यवच्छेदत्रिचरमसमये जघन्ययोगादिना यद्वध्यते तत्रापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भवन्ति । नवरं स्थितित्रयभावीनि तानि भावनीयानि, तदानीं बन्धादिव्यवच्छेदचर- मसमयबद्धसत्कस्यापि दलिकस्य त्रिसमयस्थितिकस्य द्विचरमसमयबद्धसत्कस्यापि दलिकस्य द्विसमयस्थितिकस्यापि प्राप्यमाणत्वात् । For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy