________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥७२॥
VALAD
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
स्थानान्यपि चरमसमये प्राप्यन्ते, इदमेकं स्पर्धकम् । एवं बन्धादिव्यवच्छेदद्विचरमसमये जघन्ययोगादिना यद्बध्यते तत्रापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भावनीयानि । केवलं स्थितिद्वयभावीनि तान्यवसेयानि तदानीं बन्धा| दिव्यवच्छेद चरम समयबद्धस्यापि दलिकस्य द्विसमयस्थितिकस्य प्राप्यमाणत्वात् इदं द्वितीयं स्पर्धकम् । एवं बन्धादिव्यवच्छेद त्रिचरम| समये जघन्ययोगादिना यद्वद्धं तस्यापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भवन्ति । नवरं तानि स्थितित्रयभावीन्यवबोद्धव्यानि तदानीं बन्धादिव्यवच्छेद चरमसमयबद्धस्यापि दलिकस्य त्रिसमयस्थितिकस्य द्विचरमसमयबद्धकर्म| सत्कस्यापि दलिकंस्य द्विसमयस्थितिकस्य प्राप्यमाणत्वात् इदं तृतीयं स्पर्धकम् । एवं समयद्वयोनावलिकाद्विके यावन्तः समयास्तावन्ति स्पर्धकानि भवन्ति । एवं संज्वलनमानमाययोरपि तावन्ति स्पर्धकानि प्रत्येकं वाच्यानि । तत आह-'अहिगाणीत्यादि' । योग| स्थानानि योगस्थानकृतप्रदेशसत्कर्मस्पर्धकानि कृत्स्नानि समुदितानि विवक्षितानि आवलिकासमयैर्द्वाभ्यां समयाभ्यामूनैर्गुणानीति गुणितान्यधिकानि प्राप्यन्ते । तथाहि - बन्धादिव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकसमयप्रमाणान्यवाप्यन्ते स्पर्धकानि । | तदा च प्रथमायां स्थितावनुदयावलिकैका शेषीभूताऽवतिष्ठते, द्वितीयस्थितौ च द्विसमयहीनद्वयावलिकाप्रमाणमुत्कृष्टं स्पर्धकमस्ति । | यदा तु प्रथमस्थितिसत्कानुदयावलिका प्रकृत्यन्तरेषु सङ्क्रम्यमाणा निःशेषा व्यवच्छिन्ना भवति तदा परतोऽपि द्वितीयस्थितिगतावलिकाऽन्यत्र सङ्क्रमेण व्यवच्छिद्यमाना त्रुटयति । तत एकावलिका प्रमाणानि स्पर्धकान्यन्यत्र सङ्क्रमद्वारा त्रुटितत्वात् पृथङ न गण्यन्त इति तेषु प्रथमस्थितौ च व्यवच्छिन्नायां शेषाणि समयद्वयोनावलिकासमयप्रमाणान्येवाधिकानि प्राप्यन्ते, नान्यानीति ॥ ४५ ॥
For Private and Personal Use Only
sahaka
सत्ता
प्रदेशसत्क
र्मस्थान
प्ररूपणा
॥७२॥