SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥७०॥ 152 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सव्वातो एवं भावेयव्वाओ। एवं जोगट्टाणाणि आवलियासमएहि दुसमऊणेहिं पपन्नाणि जत्तियाणि तत्तियाणि फड्डगाणि पढमट्ठितीए वोच्छिन्नाए लब्भंति । जोगट्टाणाणं च एक्कगदुगतिगच उक्कादीहिं संजोगेहिं गुणिया अणेगभेयाउ उप्पजंति । ४५ ।। (मलय ० ) – ' संजल तिगे 'ति । 'संज्वलनत्रिके' - क्रोधमानमायारूपे एवं पूर्वोक्तेन प्रकारेण स्पर्धकानि वाच्यानि । इयमत्र भावनाक्रोधादीनां प्रथमस्थितिर्यावदावलिकाशेषा न भवति तावत् स्थितिघातरसघातबन्धोदयोदीरणाः प्रवर्तन्ते । आवलिकाशेषायां तु प्रथमस्थितौ व्यवच्छिंद्यन्ते । ततोऽनन्तरसमये समयोनावलिकागतं समयद्वयोनावलिकाद्विकबद्धं च सदस्ति, अन्यत् सर्व क्षीणम् । तत्र समयोनावलिकागतस्य दलिकस्य स्पर्धकभावना यथा प्राक् कृता तथात्रापि कर्तव्या । यच्च समयद्वयोनावलिकाद्विकबद्धं दलिकमस्ति तस्यान्यथा स्पर्धकभावना क्रियते, पूर्वप्रकारेणात्र स्पर्धकस्वरूपस्याप्राप्यमाणत्वात् । अथोच्येत कथं स्थितिघातरसघातबन्धोदयोदीरणाव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकबद्धमेव दलिकमस्ति न शेषमिति ज्ञायते ? उच्यते - इह चरमसमयक्रोधादिवेद केन यद्वद्धं दलिकं तद्बन्धावलिकातीत मावलिकामात्रेण कालेन निरवशेषं संक्रमयति । तथा च सत्यावलिकाचरमसमये स्वरूपापेक्षयाऽकर्मी भवति । द्विचरमसमयवेदकेन यद्बद्धं तदपि च बन्धावलिकायामतीतायामन्येनावलिकामात्रेण कालेन संक्रमयति । आवलिकायाश्वरमसमये अकर्मीभवति । एवं यत्कर्म यस्मिन् समये बद्धं तत्तस्मात्समयादारभ्य द्वितीयावलिका चरमसमपेऽकर्मी भवति । तथा च सति बन्धाद्यभावप्रथमसमये समयद्वयोनावलिकाद्विकबद्धमेव सत्प्राप्यते, न शेषम् । तथाहि तच्चतोऽसंख्यातसमयात्मिकाप्यावलिका किलासत्कल्पनया चतुःसमयात्मिका कल्प्यते । ततो बन्धादिव्यवच्छेद चरमसमयादर्वाक् अष्टमे समये यद्वद्धं तद्बन्धावलिकायां For Private and Personal Use Only N Nepa सत्ता प्रदेशसत्क | र्मस्थान प्ररूपणा ॥७०॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy