________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DOCORRADDi
वारान् मोहनीयमुपशमय्य गुणितकाशस्य शीघ्र क्षपणायोत्थितस्य राग्यन्ते-सूक्ष्मसम्परायगुणस्थान चरमसमये वर्तमानस्य सातवेदनीयोचैर्गोत्रयशःकीर्तीनामुत्कृष्ट प्रदेशसत्कर्म, यत एतासु प्रकृतिषु श्रेण्यारूढः सन् गुणसंक्रमेण प्रभूतान्यशुभप्रकृतिदलिकानि संक्रमयति ततः सूक्ष्मसम्परायचरमसमये एतासामुत्कृष्टप्रदेशसत्कर्म प्राप्यते ॥३१॥
देवणिरयाउगाणं जोगुक्कस्सहिं जेट्टगद्धाए। बद्धाणि ताव जावं पढमे समए उइन्नाणि ॥३२॥ (चू०)-देवनिरयाउगाणि उक्कोसतेण जोएणं 'जेट्ठगद्धाए'त्ति-उक्कोसियाए द्वितिबंधगद्धाते यद्धाणि, 'ताव जावं पढमे समते उदिनाणि त्ति-जाव तस्स उदयस्स पढमसमतो ताव उक्कोसं पदेससंतं ॥३२॥
(मलय०)- 'देवनिरियाउगाणं ति । देवनारकायुयोरुत्कृष्टयोगैरुत्कृष्टया च बन्धाद्धया बद्धयोः सतोस्तावदुत्कृष्ट प्रदेशसत्कर्म प्राप्यते | यावत्प्रथमे समये उदीर्णे उदयप्राप्ते भवतः । किमुक्तं भवति-बन्धादारभ्योदयप्रथमसमयं यावद्देवनारकायुषोरुक्तप्रकारेण बद्धयोरुत्कृष्टं प्रदेशसत्कर्म भवति ॥३२॥
(उ०)-देवनारकायुषोरुत्कृष्टयोगैरुत्कृष्टया च बन्धाद्धया बद्धयोः सतोस्तावदुत्कृष्ट प्रदेशसत्कर्म प्राप्यते यावत् प्रथमे समये उदीर्णे उदयप्राप्ते भवतः । बन्धादारभ्योदयप्रथमसमयं यावद्देवनारकायुषोरुक्तप्रकारेण बद्धयोरुत्कृष्ट प्रदेशसत्कर्म भवति । परतस्तूदयादि निर्जीणप्रदेशहाने!त्कर्षप्राप्तिरिति भावः ॥३२॥
सेसाउगाणि णियगेसु चेव आगम्भपुव्वकोडीए। सायबहुलस्त अचिरा बंधते जाव णोवढे ॥३३॥, (चू०)-'सेसाउगाणि'त्ति-तिरियमणुयाउगाणं 'णियगेसु चेव आगम्म'त्ति-अप्पप्पणो जातीते पुब्वकोडाउगं 3
GROCERCE
S
LE
For Private and Personal Use Only