________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयज्ञपुत्रकसाधकाचार्याणां लक्षणानि तेषामभिषेकमकारः, अभिषिक्तस्य मन्त्राराधनतत्सिद्धिमकारश्चेत्येतत् सप्तदशादिषु पटलेषु निरूपितम् । अथ बाह्ययागस्थानभूतार्चापतिष्ठाविधिः, तच्छेषभूतबिंबपासादकल्पनामकारादिकं च विशे निरूपितम् । एकविंशे पवित्रोत्सवविधिनिरूपितः । द्वाविंशे वैष्णवभेदस्तल्लक्षणं पञ्चकालभेदश्च निरूप्यते । अन्यच्च प्रासङ्गिकं श्राद्धविधानं संस्कारविधानं चोत्तरत्र निरूप्यते । अथ प्रायश्चित्तविधिनिरूप्यते पञ्चविंशे । अभ्युदयमिच्छता मन्त्रसाधनमकारी निरूप्यते षड्विशादिषु । अन्ते योगसाधनविधिनिरूप्यते । अवान्तरास्तत्र तत्र विषया सन्त्यनेकशः । अनुक्रमण्यां सर्वे ते समुद्धृत्य प्रदर्शिताः । तत्र केचिद्विचार्याशाः सन्ति तेषां निरूपणे । स्यादन्थविस्तरो भूयान् न तं प्रस्तावनाऽर्हति । प्रस्तावनामचिहि प्रधानार्थ प्रदर्शने यथामति प्रधानार्थाः संगृह्यात्र निरूपिताः । अन्तः प्रविश्य सारार्थान् विमृशन्तु विपश्चितः ।
इदमद्य निवेद्यते। अस्यां संहितायां षष्ठे सप्तमे च पटले ये निरूपिता मुख्यमन्त्रा उपकरणमन्त्राव, ये चान्ये दशमे निरूपिताः, सर्वे ते मन्त्राराधनपरस्य प्राधान्येनात्यन्तोयुपक्ताः समुद्धृत्य मन्त्रमूच्यां प्रदर्शिताः सन्ति । अन्ये तु पवित्रमन्त्रप्रभृतयः समयविशेषे समपेक्षिता नेह प्रकाशिताः । यद्यपि मन्त्रोद्धरणं लेशतोऽक्षरव्यत्ययेऽप्यत्यन्तविपरीतमनर्थदम् । यन्मन्त्रशरीरं मन्त्रनिष्ठैः सदाचार्यपरम्परया समधिगतं सुरक्षितं श्रेयःपदमिदानीमस्तपचारम् । वचनतोऽक्षरसंज्ञाकोशमवलम्ब्याधिगत्यानुपूर्वीविशेषं यथामतिवलं प्रकाशितं नामात्र । स्यानाम स्खालित्यस्याप्यवसरः। नैकमप्यस्मिन् समये शुद्ध पुस्तकमुपलभ्यते । बहोः कालात् संहितापचारस्यात्यन्तलप्सतया मुतरामशुद्धसंवलितान्येवैतानि पुस्तकानि । अथापि मन्त्रोद्धरणमसने विशेषतः संपाधावधानं समुद्धृता नाम मन्त्राः।
अथ च बाह्ययागोपयुक्तं यन्मण्डलं नवनाममण्डलं नवपद्ममण्डलमिति बा नाम्ना ख्यातं चित्रात्मना कृतविन्यासं प्रदर्शितं नाम । तद्विन्यासोऽपि यथावचनं विरचितो नाम । अत्र कर्णोपकर्णरचनायां संहितान्तरावलोकने इयं रीतिरन्यथैव प्रतिभाति, परंतु-'वस्मिन भागद्वयेनैव कर्ण कुर्याद्विजोचम । चतुर्मिरुपकणे तु' इत्यस्मिन् पचने भागद्वयेन कर्णस्य भागचतुष्टयेनो
For Private and Personal Use Only