________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पकर्णस्य च रचना पोच्यते । एतदनुरोधेनास्माभिरीशी रीतिराश्रिता। भागत्रयेणैवेति चेत् पाठस्तदा कोणं कोणमन्तःश्रेण्यामेकं बहि:श्रेण्यामेकं च मतिदिशं सिद्धयेत् । तथा अन्तःश्रेण्यां पदद्वयं बहि:श्रेण्या पदमेकमादायाहत्य भागत्रयेण कर्णरचना, अन्तश्रेण्यां पदमेकं बहि:श्रेण्यां पदत्रयं चादायाहत्य भागचतुष्टयेनोपकर्णरचना सिद्धयेत् । उपलब्धेषु सर्वेषु पुस्तकेषु भागद्वयेनेत्येव पाठो दृश्यते । अतो यथापाठमस्माभिरियं रीतिरत्राश्रिता । किश्च कर्णोपकर्णयोर्निवेश्यो वर्णविशेषश्च न प्रतिपादितः, पीतेन पीठको. णादी' त्यादिशब्देन सब संभाव्य वर्णविशेषः कर्णोपकर्णव्यक्त्यापायको विन्यस्तः । तदत्र विषये यथासंप्रदायं निर्णयः कार्यः।
अस्मिन् संशोधनकर्मणि मन्त्रोद्धरणमण्डलविन्यासांशे मन्त्राराधनपरायणसत्कुलपसूताः काञ्चयां विराजमानस्य भगवतो हस्त्यद्रिनाथस्य समाराधका:श्रीराजगोपालभट्टाचार्याः साहाय्यं बह्रकुर्वन, श्रीमतस्तान सरलहृदयान्महाशयानस्मिन्मसङ्गे वयं साभिनन्दनं सबहुमानं मुहुरनुस्मरामः ।
वडोदरानगरस्थराजकीयसंस्कृतपुस्तकालयस्यं तालपत्रात्मकमेकम् C. L. इत्येतत्संज्ञकम् अपरं च परमहंसपरिव्राजकाचार्यश्रीयदुगिरियतिराजसंपत्कुमारस्वामिनां तालपत्रास्मकं पुस्तकम् Y इत्येतत्संज्ञकं, तृतीय श्रीरङ्गक्षेत्रस्थश्रीभाष्यभट्टार्यस्य तालपत्रात्मकं पुस्तकं 5 इत्येत्संज्ञक, अपरं च अडयारपुस्तकालयस्य पत्रात्मकम् (A) एतत्संज्ञकम् । इत्येतत्पुस्त कचतुष्टयमवलम्ब्यास्याः संहितायाः संशोधनं कृतम् । एतेषु नैकमप्यत्यन्तशुद्धम् । प्रायः अशुद्धावेकरूपम् , कचिदशुद्धिपरिहरणे मिथः समुपकारक चैतत्पुस्तकचतुष्टयमभूत् । प्रामादिकं च मस्खलनं शुद्धिपत्रे परिहतम् । सदवलोक्यैव पाठो बोध्यः।
अथापि स्यादशुद्ध चेत् सोढव्यं विबुधैरिदम् । निगूढा संहिता सेयमुभीता हि कथञ्चन ॥
एंबार कृष्णमाचार्यः (श्रीरङ्गम् ) संस्कृतपाठशालाप्रधानपण्डितः
घडताल
For Private and Personal Use Only