________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इति । तस्मादीषत् ब्रह्मसमापत्तिस्तदा । इदं चापरोक्षविज्ञानं योगाभ्याससाध्यम्, न तु शास्त्राश्रवणमात्रसाध्यमित्येतत् ज्ञाप्यते 'उत्पद्यते हि युक्तस्ययोगाभ्यासात् क्रमेण वै ।' इत्यनेन । इदं चापवर्गसाधनमोपनिषदादपवर्गसाधनादनतिरिक्तम् । ब्रह्मात्मकस्वात्मापरोक्षरूपतया ब्रह्माभिन्नं ज्ञानमिति निर्देशः । इदं च ब्रह्माभिन्नं ज्ञानं सत्ताख्यात् ज्ञानात्, तच्च सत्ताख्यं ज्ञानं क्रियात्मकात् ज्ञानादुद्भवतीत्युच्यते-'ज्ञानं तु द्विविधं विद्धि सत्ताख्यं च क्रियात्मकम् । सत्ताख्यस्य क्रियाख्येन अभ्यस्तेन भवेद्धृतिः ।........। एवं क्रियाख्यात सत्ताख्यं ज्ञानं प्राप्नोति मानवः। ब्रह्मण्यभिन्नं सत्ताख्यात् ज्ञानात् ज्ञानं ततो भवेत् । ब्रह्माभिन्नात्ततो ज्ञानात् ब्रह्म संपद्यते परम्' (प. ३१) इति । ननु कथमेतत् क्रियात्मकं ज्ञानमिति, कथं वा सत्तात्मकं ज्ञानं तस्मादिति । उच्यते-यथा गीतायां 'अमानित्वमदंभित्वमहिंसा क्षान्तिरार्जवम् ।.......। एतत् ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा । ' इति ज्ञानस्वरूपं निरूपितम्, तथेहापि ज्ञेयस्य ज्ञाने यत् साधनं तदखिलं ज्ञानमित्युच्यते, तच्च कायिकवाचिकमानसिकक्रियारूपमिति इज्यादिरूपं ध्यानरूपमपि भवितुमर्हति । अत एव गीतायामपि विविक्तदेशसेवित्वमिति कायिकक्रिया लक्षणं तत्त्वज्ञानार्थदर्शनमिति मानसिकक्रियालक्षणं ज्ञानं चाविशेषेण गृह्यते । इहापि-'शुचिरिज्या तपथैवैति कायिकस्य 'हृद्गतं न त्यजेद्ध्यान'मिति मानसिकस्य च क्रियाविशेषस्याविशेषेण ग्रहणम् । अनेन च सत्ताख्यं ज्ञानम् , तच्चेन्दियनिरपेक्षमात्मनो ज्ञानज्योतिर्मयस्य यत्पभाभूतं ज्ञानं स्वतःसर्वार्थग्रहणसमर्थ सत् पसरति, तदुच्यते, तच्च पूर्वोत्तै नरभ्यस्तैर्भवति । तथाभूते प्रसरति सत्ताख्ये ज्ञाने देवाधौपाधिकभेदरहितशुद्धपत्यगात्माऽवभासते, अत एव तदा सर्वैः समरसत्वं प्रकाशते, औपाधिकवैषम्यानवभासेन सर्वात्मनां ज्ञानकरसतैवावभासते, सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि पश्यति। एवं साक्षाकृतसमरसत्वस्य ब्रह्मणा सहापि समरसत्वमाविर्भवति । अपहतपाप्मत्वादिभिः स्वभावैः समरसो ह्ययं परब्रह्मणा, तत् सत्ताख्यात् ज्ञानात ब्रह्माभिन्नज्ञानं निष्पद्यते । ततश्च ब्रह्मसंपत्तिः । पायसंहितायामप्यस्मिन्नेव प्रकरणे वचनमीदृशं वर्तते । परं सत्ताख्यामित्यत्र सत्त्वाख्यमिति पाठः सत्ताख्यादित्यत्र सत्वाख्यादिति पाठो वर्तते, स्यादपि स्खालित्यम्, संशोध्य भावस्त्वयमेव ग्रायः । नातिरिच्यते च तावता भावतः। । ननु विना ध्याननिष्ठां न तनिष्पत्तिः, परं ब्रह्म च नोपासनापदमहेति। करणानामभूमित्वात् । अत्रोच्यते । मन्त्रमालंबनविशेषमवलंब्य तदुपा
For Private and Personal Use Only