________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सनेन तनिष्पत्तिः स्यादेव, मन्त्राश्च तस्यैवांशाः । तथा च वचनानि सर्वोपमानरहितं वागतीतं स्ववेदनम् । अस्तीति परमं वस्तु निरालंबमतीन्द्रियम् । आत्मन्यानन्दसंस्थस्य व्यज्यते करणैर्विना। करणाः माकृताः सर्वे चित्तजाच विशेषतः। उपायमत्र मन्त्रीघाः' (प.४०)। मन्त्राराधनसक्तस्तु तसिद्धीनामलोलुपः। भक्तस्तथाननिष्ठश्च तक्रियापरमो महान् (प.३९) इति । ( अत्र ध्यानक्रियाशब्दाभ्यां बाह्यमानसयागावुपलक्ष्येते) 'एते भगवदंशाश्च शब्दा भास्वरविग्रहाः । कारणं सर्वमन्त्राणां भगवच्छक्तिबंहिताः । परस्पराङ्गभावेन मन्त्रोत्पत्तिं व्रजन्ति हि ।' (प. ४५) इति च । परस्य ब्रह्मणो मूर्तिः कापि मन्त्रमयी, तथा च वचनानि- तच्छरीरं हि मे मान्त्रं परं परफलमदम् । ........ एष वर्णमयः पिण्डः परो मे मन्त्रविग्रहः । (प.५७) 'ततो मन्त्रमयं रूपं कृत्वा शक्त्यात्मकं महत् ।' (प. २४) इति । तन्मन्त्रमूर्तेः परस्य ब्रह्मण उपासनेन समरसत्वाधायकं ज्ञानं सिद्धयति । तथा चेदं शास्त्रं मन्त्रतदाराधननिरूपणप्रधानमिति सिद्धम्। तत्र मन्त्राणामाविर्भावक्रमः, मन्त्रमेदाश्चात्र षष्ठे सप्तमे पटले निरूपिताः । तेषु मन्त्रेषु प्रायः प्राधान्येन कतिचन मन्त्राः । समुद्धृत्य मन्त्रसूच्यामस्माभिः प्रदर्शितास्ते ततो बोध्या: । मन्त्राणामाविर्भावः 'योऽविकारः परः शुद्धः स्थितः संवेदनात्परे। स कथं व्यापकं ब्रह्म मन्त्रमूर्तित्वमागतः ।........ तस्यैकां परमां शक्तिं विद्धि तद्धर्मचारिणीम् । ययोपर्यते विभ सृष्टिकृत्परमेश्वरः ।........। शक्त्यात्मकः स भगवान् सर्वशत्युपबृंहितः। (प.५८) इत्यादिना उपपादितः । इदमुक्तं भषति-यद्यपि परं ब्रह्माविकारि नित्यशुद्धं नित्योदितानन्दस्वरूपं संविल्लक्षणम् । अथाप्यनन्यसामान्यया स्वाविनाभूतया कयाऽपि शक्या विशिष्टमिति सर्गप्रभवत्वम्, स्वयं सर्वशत्युपबृंहितत्वात् अविकृतं सदेव विविधारंभसमर्थ च भवति । तत्तत्कार्यारंभजननसमर्थास्तास्ताः शक्तयोऽप्यस्यैव । धर्मपर्मिभेदाच स्वरूपस्य नोपमर्दः । चिन्तामणिदृष्टान्तेनैतदुपपादनं त्वत्रानुरूपमिति प्रतिभाति । निदर्शनं चेदमत्रैवान्यत्र प्रकरणे श्रूयते-' चिन्तामणौ यथा सर्वममूर्त संव्यवस्थितम्' (प. ३३) इति । तथाविधान सर्वशत्युपबृंहिताव अकारादिविसर्गान्तः स्वरवर्गः अग्नीपोमात्मका, कादिमान्तो व्यञ्जनवर्गः क्रमात् क्ष्मादिपुरुषान्ततत्त्वात्मना परमेश्वरेणाधिष्ठितः, यादिवान्तो वर्णः क्रमात् जाग्रदायवस्थात्मनाऽधिष्ठितः शादिक्षान्तस्तुर्यातीतेनाधिष्ठितः मादुभवति । विस्तारेणैतदहिर्बुध्न्यसंहितायां निरूपितम्, इह तु दियात्रमुपदर्शितम् ' अशीषोपात्मकत्वेन तुल्यकालं हि मूच्छेति' (प. ५८) इत्या
For Private and Personal Use Only