________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपुनर्भवो मोक्षः, सा च ब्रह्मसंपत्तिरित्युक्तं भवति । श्रूयते चायमर्थः 'अथ य एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति । सेयं संपत्तिः सरितां समुद्र इवेति निदर्शनोदाहरणेन विशदीक्रियते च-'सरित्सङ्घनद्यथा तोयं संप्रविष्टं महोदधौ । अलक्ष्यचोदके भेदः परस्मिन् योगिनां तथा ।' (प. ३७) इति । अनेन 'यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ' इति श्रुतिर्व्याख्याता । एतेन ब्रह्मसम्पत्तिाह्मस्वभावापत्तिरित्यपि व्याख्यातं भवति । 'ब्रह्मण्येकात्मता याति कर्मवर्गे क्षयं गते' (प. २७ ) इति येयमेकात्मतापत्तिरुच्यते, साऽप्येकस्वभावापत्तिरेव । ___ तस्यास्यापवर्गस्य साधनभूतं ज्ञानमिदमत्र निरूप्यते-'ज्ञानेन तदभिनेन परिज्ञातेन नारद । जायते ब्रह्मसंपत्तिस्तस्मात् ज्ञानं समभ्यसेत् ।' (प.३०) अनेन ब्रह्माभिन्नज्ञानं साधनमित्युक्तं भवति, किं तत् ब्रह्माभिन्नं ज्ञानं तदेव विशदीक्रियते उत्तरत्र 'यत् सम्यक् ब्रह्मवेत्तृत्वं मनाग्या चैव भिन्नता । ईषद्ब्रह्मसमापत्तिस्तदभिन्नं तु वै स्मृतम् । ' इति । (प. ३२) तथा नारदः'ब्रह्माभिन्नं ततो ज्ञानं श्रोतुमिच्छामि तत्त्वतः ........ । सर्वोपाधिविनिमुक्तं ज्ञानमेकान्तनिर्मलम् । उत्पद्यते हि युक्तस्य योगाभ्यासाक्रमेण तत् । तेन तत्लाप्यते विष अन्यथा दुर्लभं मवेत् । प. ३८) इति च । अयं भाव:इदं तु सम्यक् ब्रह्मवेत्तृत्वम्, येन ब्रह्मवेदनेन अयमहमस्मीति ब्रह्मक्षत्रादिभेदावलम्बिनी व्यवहारपथैकान्ता बुद्धिर्नानुवर्तेत, तच ब्रह्मापरोक्षलक्षणम्, परोक्षण हि शास्त्रजन्येन ब्रह्मज्ञानेन न निरुद्धयते मुखदुःखादिवैचित्र्यव्यवहारः, तज्जातमपि तन सम्यक् जातम् । अतः सम्यग्वेत्तृत्वमपरोक्षमुच्यते, तदानीं मनागेव भेदः, यदयमात्मानं तदा ब्रह्मात्मकमेव पश्यति, योऽयमात्यन्तिको भेदः शरीरलक्षणपिण्डोपाधिकदेवमानुषादिलक्षणः स बस्तंगतः, यदयं न तथाऽऽत्मानं पश्यति, किन्तु ब्रह्माहमस्मीति, अहमनपायान्मनागस्ति तु भेदः, उपास्यं ब्रह्म उपासकं चात्मानमेषोऽहमस्मीति पश्यति, ब्रह्माइमस्मीत्यपरोक्षावभासेन ब्रह्म संपन्नो नाम, मोक्षेऽपि ह्ययमेवानुभवः, अथापि न परिपूर्णा ब्रह्मसंपत्तिः, परं ज्योतिरुपसघ हि स्वेन रूपेण निष्पत्स्यते, इदानीं हि साधनदशा, भारब्धफलभूतं शरीरं तु नापगतम् । अशरीरं वा व सन्तं न पियाप्रिये स्पृशतः, यावच्छरीरपातं तयोः प्रसङ्गसंभावना अनपाया, श्रूयते चैवम् 'तस्य तावदेव चिरं यावन विमोक्ष्येऽथ संपत्स्ये'
For Private and Personal Use Only