________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ शुद्धसर्गनिरूपणमुखेन परस्य ब्रह्मणः पारमैश्वरस्वभावविशेषो निरूप्यते- प्रागुक्तौ द्वावपि सर्गावशुद्धौ, गुणमयपवाहरूपत्वेन संसारसागरपवेशकहेतुत्वात् । अयं तु परब्रह्मणः प्रादुर्भावविशेषलक्षणे निःश्रेयसैकान्तः पन्थाः । उक्तात द्विविधात् सगोत्परतरोग्यम् । तथा च वचनम्'शुद्धसर्गमहं देव वेत्तुमिच्छामि तत्त्वतः । सर्गद्वयस्य चैवास्य यः परत्वेन वर्तते । (प. २७) इति । अयमत्र शुद्धसर्गप्रकार:-आनन्दमयं परं ब्रह्म वासुदेवाख्यं प्रथममच्युतात्मना ततः सत्यात्मना ततः पुरुषात्मना च क्रमादाविर्भवति । वासुदेवादच्युतः, ततः सत्यः, ततः पुमान् , इति, अयमेवानन्त इत्यप्युच्यते । एवं क्रमादाविर्भूतानामेषां यथाविर्भावं स्वस्थपूर्वस्वरू. पेणाभेदः, परा प्रतिष्ठितिश्च वासुदेवे । तथा चात्र वचनानि-' यत् सर्वव्यापकं देवं परमं ब्रह्म शाश्वतम् । चित्सामान्यं जगत्यस्मिन् परमानन्दलक्षणम् । ........ स वासुदेवो भगवान् ........ अच्युतं चासृजत् द्विज । सोऽच्युतोऽच्युततेजाश्च ........ सत्यं भास्वरविग्रहम् । उत्पादयामास........। स चिन्मयप्रकाशश्व........ पुरुषाख्यमनन्तं च........ । स च सत्यादभिन्नस्तु तस्मात् सत्यं तथैव हि । द्वाभ्यामेकात्मरूपं यत्तदभिन्नमथाच्युतात् । आश्रितः संस्थितस्ताभ्यामभेदेन तथैव हि। पुमान् सत्योऽच्युतश्चैव चिद्रूपं त्रितयं तु यत्। शान्तसंवित्स्वरूपे च वासुदेवेऽवतिष्ठते ।' (प. २७-२८) तत्र पुरुषस्य सर्वान्तर्यामितयाऽवस्थितिः अच्युतस्य सर्वावतारप्रभवत्वं च निरूपितम्-तथा च वचनम्-'स च वै सर्वदेवानामाश्रयः परमेश्वरः । अन्तर्यामी च तेषां वै ........। ये स्विदायावताराश्च लोकत्राणाधिकारिणः । सर्वान् विद्धि मदंशास्तान सर्वेऽशाः सत्यनाः स्मृताः । (प. २८) इति । यच्च परस्य ब्रह्मणः सर्गस्थितिसंहारव्यापारैकान्तं रूपं तत् स्थूलमुच्यते, यच्च सर्वहृदयगुहान्तस्थितिलक्षणं रूपं तत् सूक्ष्ममुच्यते, यत्तु आनन्दमयं स्वरूपं तत्परमुच्यते । एवं परस्य ब्रह्मणः स्थूलादिरूपो बोध्यः। तथाचोच्यते 'पालयिता चाह'मित्यादिना 'व्यापकेनामलेन चे'त्यन्तेन । (२९) या च मन्त्रमूर्तिभंगवतः सा च सकलनिष्कलभेदेन द्विधा । इयमेव मन्त्रमूर्तिरुषासकानां बन्धविमोचनाय प्रभवति । तथाचोच्यते-'योगवीर्येणे' त्यादिना 'बन्धपरिक्षय'मित्यन्तेन । एवं परस्य ब्रह्मण उपास्यस्य स्वरूपनिरूपणप्रसङ्गेनैतावदुदाहृतम् ।
अथ मोक्षस्य स्वरूपमुच्यते-' अनादि वासनायुक्तो यो जीव इति कथ्यते । तस्प ब्रह्मसमापचिर्याऽपुनर्भवता च सा' (प. ३२) इति ।
For Private and Personal Use Only