________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
विपश्चितां हि तस्कार्यमैकरस्येन योजनम् यथाश्रुतग्राहिणां तु नोपरोधो वचोऽन्तरैः ॥
आनुमानिकमधानकारणवादभ्रमनिराकरणायानुपदं 'परस्परजडानां च कीदृशं वद मे प्रभो । उत्पाद्योत्पादकत्वं हि अत्र मे संशयो महान् ।' (प. २६) इत्याशङ्कामनूद्य 'बीजं ह्यचेतनं यद्व' दित्या. दिना पुरुषाधिष्ठितस्यैव हेतुत्वं ज्ञाप्यते । अयमत्र वचनाशयः-ननु प्रधानमहदादीनां जडानां कथमुत्तरोत्तरकार्यारम्भकता चेतनाधिष्ठिततयैव हि तेषांकार्यारंभकता दृष्टा, अत्रोच्यते, यथाबीजानामरोत्पादकता दृष्टा तथेहापि । ननु किं तेन निदर्शनेन तत्रापि शङ्का तुल्या। नैतत् । बीजं हि चेतनाधिष्ठितं, तदिह चिदचिदुभयमविभक्तं मिथः संश्लिष्टमेकं बीजमाख्यायते, अतो भवत्यङ्कारारम्भकम्, तथेहापि 'गुणसाम्यस्वरूपस्य रागादेरास्पदस्य च । सन्तान एको ोकस्य चेतनाचेतनस्य च ।' गुणसाम्यमचेतनम्, रागादेरास्पदश्चेतनः, तयोरन्योन्यमविभागेन संसृष्टयोरेकः संहतिविशेषः प्रकृतिः, तथाविधोऽपरः सन्तान इति । तत् पुरुषानधिष्ठितप्रधानकारणवादप्रमो निरस्तः । अयमेव चेतनाचेतनयोगः प्रश्नपतिवचनमुखेनानुपदं निरूपितः । 'अचेतनमिदं नाथ कथं स्याचेतनं पुनः।' इत्यादिना ग्रन्थेन । तत्रापि 'चिद्रूपमात्मतत्त्वं यदभिन्नं ब्रह्मणि स्थितम् । तेनैतच्छरित भाति ।' इति ब्रह्माधिष्ठितचेतनाधिष्ठितत्वेन तदुपपादनात् ब्रह्मण एव प्राधान्येनोपादानलं सूचितं भवति । अस्य चिदचितोर्योगस्यानादिवासनैव कारणमित्युच्यते 'अनादिवासनायुक्तो जीवोऽयं वै चिदात्मकः।' (प.१६) इति । अयमेवार्थः पायासंहितायामपि निरूपितः- 'अचेतनं चेतनं च रूपं संसृष्टमीक्ष्यते । किमेकयोनिः सा सृष्टियोंनिभेदः किमेतयोः। श्रीभगवान् । अभिन्नमेकमव्यक्तं रूपं तत्परमात्मनः । अविभक्तं विभक्तं च दधि सर्पिरिव स्थितम् ........... अचेतनाचेतनाञ्च सृष्टिरेवमुदाहृता ।' (अ.७) 'प्रकृतिः पुरुषश्चोभे मम रूपे दुरत्यये । अनुपविश्य द्वितयं क्षोभयाभ्यहमिच्छया । (अ.५) इति ।
ब्रह्माधिष्ठितात्तस्मात्मधानान्महत्तत्त्वं, तस्मान्महतः सात्त्विकराजसतामसभेदभिन्नस्त्रिविधोऽहङ्कारः, प्रकाशात्मनः सात्त्विकाहङ्कारात श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि मनश्च, विकृत्यात्मनो राजसाहङ्कारात् पञ्च वागादिकर्मेन्द्रियाणि, इदं सालचमक्रियातो विषमम् , भूतात्मनस्तामसाहङ्कारात् पञ्च तन्मा. त्राणि, तेभ्यः पञ्च भूतानि जायन्ते इति प्राधानिकसर्गप्रक्रिया।
For Private and Personal Use Only