________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अजायत महत्तत्त्वम् । (अ. ५) इति प्रकृतितो महदुत्पत्तिः प्रकृतेश्च गुणसाम्यावस्था चोपपादिता । पुरुषाधिष्ठितेति कापिलादानुमानिकप्रधानात्मकतेर्भेदचोपपादितः । न च तद्वचनैश्वास्यैकरस्यम् । इदमत्र नः प्रतिभातियदेकात्मलक्षणं गुणसाम्यापनं गुणत्रयमयमजमनाद्यव्यक्तं प्रधानमुच्यते तदेव सर्वविकारमूलभूतम्, विभक्तं च तदुपनं क्रमात्सत्त्वं रजस्तमः-तदेतत् प्रधानं क्रमात् सत्त्वप्रधानतया रजामधानतया तमःप्रधानतया च विभक्तं सत् विकारात्मना भवति । तदिदं सामान्यवचनम् । तदेवोपपाद्यते गुणत्रयसमृहाद्धीत्यादिना । जायमानेषु महतः सत्त्वमाधान्यादहङ्कारस्य रज:माधान्याद्भूतानां मूक्ष्माणां स्थूलानां च तमःमाधान्यात् क्रमात्तेषां सत्त्वादीनामुत्पत्तिप्रतिपादकसामान्यवचनस्य सङ्गतिः । महदहङ्कारयोः सत्त्वादिवैषम्यनिबन्धनं यत् त्रैविध्यं तत्परतया वा तत्सङ्गतिः । एवमस्य वाक्यस्य नयनं पाद्यसंहितानुगुणम् । पारसंहितायाश्च जयाविवरणत्वेन प्रथा प्रवर्तते । तदहिर्बुध्न्यवचनानुगुण्येनास्य नयने नापेक्ष्यते प्रयासः । यद्यपि पाद्मसंहितानुगुणमस्य वचनस्य नयनं युज्यते नाम, परमहिर्बुध्न्यसंहितावचनविरोधस्तु परिहार्यः । अन्यथा संहितासु मिथो विरोधेनामामाण्यं प्रसज्येत, प्रयोगे तु विकल्पो न वस्तुनि, अयं गौर्वा स्यात् अश्वो वा स्यादिति न विकल्पो भवति । सत्यम् । अत्रैवं प्रतिसमाधिः-अहिर्बुध्न्यसंहितायां सप्तमेऽध्याये'अन्यूनानतिरिक्तं यद्गुणसाम्यं तमोमयम् ।' इति प्रस्तुत्य सायाभिमतं तस्यैव जगन्मूलपकृतित्वं प्रतिक्षिप्य 'पुरुषाधिष्ठितात्तस्माद्विष्णुसङ्कल्पचोदितात् । कालेन कलिताञ्चैव गुणसाम्यान्महामुने । महानाम महत्तस्वमव्यक्तादुदितं मुने ।' इति गुणसाम्यावस्थालक्षणादव्यक्तान्महत उत्पत्तिमभिधाय महतोऽहङ्कारस्ततस्त्रिविधादेकादशेन्द्रियतन्मात्राणामुत्पत्तिरुपवर्ण्यते । तदहिवुध्न्यसंहितासप्तमाध्यायस्थतत्त्वोत्पत्तिनिरूपणप्रक्रियानुगुणमेवैतत्संहितास्थतत्त्वोत्पत्तिनिरूपणमित्यविरोधः । अथ षष्ठाध्यायस्थैः ' सत्त्वं रजस्तम इति विधोदेति क्रमेण त'दित्यादिभिः प्रदर्शितैर्विरोधस्तदवस्थ एवेति चेत्, एकस्यामेव संहितायां षष्ठसप्तमाध्याययोमिथो विरोधे समनुप्राप्ते यः परिहारः स एवात्रापीत्यास्थेयम् । स च प्रकारो निबन्धव्याख्यानशैलीमनुसरतीति नेह प्रस्तावनायां निरूप्यते। षष्ठाध्यायान्त्यश्लोकानां सप्तमाध्यायादिभागस्थश्लोकानां च सम्यक्पयोलोचनेन स प्रकारः समुन्नेयः ।
अथवा वाक्यनयनप्रयासेनेह किं फलम् आपाततो ज्ञायतेऽत्र प्रक्रियैका विलक्षणा ।
For Private and Personal Use Only