________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५६
जैव जायते साधकोत्तमः । ' ' एवं विष्णुमयो भूत्वा स्वात्मना साधकः पुरा । मानसेन तु यागेन ततो विष्णुं समर्चयेत् ॥' इत्यादीनि ।
स्तमः '
Acharya Shri Kailassagarsuri Gyanmandir
**** ***
तस्यास्य परब्रह्मणः सर्गहेतुत्वलक्षणमैश्वर्यं सर्गभेदनिरूपणमुखे नावबोध्यते । तत्र ब्राह्मः सर्गः प्राधानिकः सर्गः शुद्धसर्गचेति त्रिविधः सर्गः । ब्राह्मः सर्गः ब्रह्मणश्चतुर्मुखस्योद्भवत आरभ्य प्रवृत्तो व्यष्टिष्टात्मकः । सच- ' यदिदं पश्यसि ब्रह्मन् मायया निर्मितं जगत् । .... ..........। मामके प्रभवो ह्यहि प्रलयश्च निशागमे । दिव्यं युगसहस्रं च मदीयं विद्धि वासरम् । .....। ज्ञानयोगप्रभावेन अम्मयं महिमाहृतम् । प्रेरितं नाभिरन्ध्रेण मया हार्द कुशेशयम् । ...........। तन्मध्ये... मया सृष्टचतुर्मुखः । ' ( प. ११ ) इत्यादिना विस्तरशो निरूपितः । प्रधानस्य गुणत्रयमयस्य महदाद्यात्मना परिणतिलक्षणः प्राधानिकः सर्गः, स च 'अनादिमजमव्यक्तं गुणत्रयमयं द्विज । ' ( प. २५) इत्यादिना निरूपितः । तत्र प्रधानलक्षणं गुणसाम्यम्, तदिदमुच्यते 'एकात्मलक्षणं गुणत्रयमयम् ' इति ( पटल. ३. श्लो. २) एकात्मलक्षणम् - अविषमस्वभावमित्यर्थः । तेन गुणानामवैषम्यमुक्तं भवति । तस्मात्प्रधानान्महदादिक्रमेण पृथिव्यन्तानां तत्वानामुत्पत्तिः 'गुणत्रयसमृहाद्धि.. • खवाय्वग्न्युदकानि च पृथिव्यन्तानि ' ( प. २५) इत्यन्तेन निरूपिता । अत्रेदं विचार्यम् -' विभक्तं च तदुत्पन्नं क्रमात्सत्वं रज( प. ३. लो. ३ ) इत्यनेन गुणत्रयपयादेकात्मलक्षणादव्यक्तात् सत्त्वं रजस्तमः इति क्रमाद्विभक्तमुत्पन्नमिति गम्यते, ततः पश्चात् महत उत्पचिरिति तदुत्तरवचनेन 'बुद्धिर्बुद्धिमतां श्रेष्ठ' इसने नावगम्यते । केयं प्रक्रिया महतः पूर्व गुणानां सच्वादीनां त्रयाणां क्रमादुत्पत्तिरिति । इयमेव गुणानां क्रमादुत्पत्तिरहिर्बुध्न्यसंहितायां श्रूयते -' यत्तगुणमयं रूपं शक्तेस्तस्याः प्रकीर्तितम् । सत्त्वं रजस्तम इति, त्रिधोदेति क्रमेण तत्, सच्चाद्रजस्तमस्तस्मात् ' इति (अ. ६) 'तमसो बुद्धिरुद्धते 'ति च तस्यां संहितायां तद्वचनशेषेण महत्तच्वे तमसो हेतुत्वं वर्ण्यते । तथा महतस्तमसि तमसो रजसि रजसः सच्वे लयः श्रूयते । (अ. ४) इह तु - 'गुणत्रय समूहाद्धि धर्मज्ञानादिलक्षणा । बुद्धि' रिति ( प. ३ श्लो. ३) समनन्तरवचनेन गुणत्रय समूहस्य महत्तत्त्वे हेतुत्वं वर्ण्यते । तदस्याः संहिताया अस्मिन्नर्थे न तया सहात्यन्तमानुकूल्यम् । पाद्मसंहितायां तु प्रकृतिस्त्रिगुणा ब्रह्मन् अनादिरविनाशिनी । पुरुषाधिष्ठिता सूते स्थावराणि चराणि च । गुणसाम्यात्मनस्तस्मात् पुरुषाधिष्ठितात्पुनः ।
***
I
For Private and Personal Use Only