________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराकाष्ठा परागतिः ............अनादि तदनन्तं च न सन्तन्नासदुच्यते । सर्वत्र करवाक्पादं सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमद्विद्धि सर्वमावृत्य तिष्ठति । सगुणैरिन्द्रियैः सर्वैः भासितं चैव वर्जितम् । तदसक्तं हि सर्वत्र यत्तु सर्वत्र चैवहि |............। प्रकाशं ज्योतिषां तच्च अज्ञानात्परतः स्थितम् । .......... सर्वज्ञः सर्वदर्शी च सर्वः सर्वेश्वरः प्रभुः । सर्वशक्तिमयश्चैव स्वाधीनः परमेश्वरः । अनादिश्वाप्यनन्तश्च सर्वदुःखविवर्जितः । (प. ३३) इत्यादिना । अनादि तदनन्तं चेत्यादीनि वचनानि 'अनादि....न सत्तन्नासदुच्यते । सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ' (गीता. अ. १३) इत्यादिगीतावचनैः सह प्रायः समानानुपूर्विकाणि । परं वचनानामेषामाशयस्तत्रैवानुपदं ' इति तस्य जगद्धातुः सर्वज्ञत्वाच नारद । महिमायमनन्तस्य ईश्वरत्वाच विद्यते' इत्यादिना विस्तरेण वर्णितः। एवमिह क्रियामाणं ब्रह्मस्वरूपनिरूपणमुपनिषदि क्रियमाणात् ब्रह्मस्वरूपनिरूपणानलेशतोऽपि विपरीतम् । परस्य ब्रह्मणो जगदुपादानत्वं च 'कारणाय पराय च ।' सर्गस्य प्रभवाय च' (प. १९) इत्याभ्यां स्पष्टं गम्यते । उच्यते चास्य सर्वात्मत्वम् ' नानाभेदेन भेदानां निवसत्येक एव हि । न तस्य विद्यते मानं न च रूपं महात्मनः । तेजोवाय्विन्दुभावेन पद्मसूत्रायुतायुतात् । कोट्यं शेन तु मानेन सुसूक्ष्मेषु स्थितोऽणुषु ।............. अनेकाभिश्च संज्ञाभिस्तमव्ययमुपास्महे । ईश्वरत्वेन विप्रेन्द्र पुरुषत्वेन चैव हि । शिवसूर्यात्मकत्वेन सोमस्वेन तथैव च । अग्नीषोमात्मकत्वेन शब्दत्वेनापि वै पुनः । ज्योतिर्ज्ञानात्म कत्वेन कालत्वेन च नारद । जीव-क्षेत्रात्मकत्वेन भूतात्मत्वेन वै तथा । एवमेकः परो देवो नानाशक्त्यात्मरूपधृत् । नारायणः परं ब्रह्म निष्ठा सन् ब्रह्मवेदिनाम् ।' (प. ३६) इति । अयमैकात्म्यवादश्चौपनिषदः । सर्व खल्विदं ब्रह्मेति हि भूयते । तथा नारायणोपनिषदि च ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः ।....। नारायण एवेदं सर्व यद्भतं यच्च भव्यम् ।' इति । किञ्च यथोपनिषदि-त्वं वै अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते योऽसावसौ पुरुषः सोऽहमस्मि' इत्यादिना ब्रह्मात्मकस्वात्मभावनं विहितं तथैव बाहयागाभ्यन्तरयागयोब्रह्मात्मकस्वात्मभावनमेव विहितमित्युपासनांशेऽप्युपनिषन्मतमेवात्राद्रियते । तथा च वचनानि-' अहं स भगवान्विष्णुरहं नारायणो हरिः। वासुदेवो ह्यहं व्यापी भूतावासो निरअनः । एवं रूपमहङ्कारमासाद्य सुदृढं मुने ॥ तन्मयश्वाचिरे
For Private and Personal Use Only