________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्मादस्याः संहितायाः सारांशो लेशतो मया ।
यथोपलंभं संक्षिप्य मुखभागे प्रकाश्यते ॥
अस्यां संहितायां प्रधानतमं प्रतिपिपादयिषितमिदम्-यत् आनन्द. मयस्य परस्य ब्रह्मणो वासुदेवस्य मन्त्रमूर्त्यात्मनोपासनं निःश्रेयसार्थिभिरभ्युदयार्थिभिचोपादेयम् । भवभयभीताय निर्विण्णाय शिष्याय गुरुणा तद्भयपशमनैकहेतुभूतज्ञाननिष्पत्तये मन्त्रमूर्त्यात्मनो भगवतो मानसयागवाह्ययागलक्षणं समाराधनं छुपदिश्यते । तथा च वचनानि-'न विद्यः कि भविष्यामो ह्यद्यापि गहने भवे । न स्थितिः शाश्वती स्वःस्थे न च बन्धपरिक्षयः । न चैवेह स्थिरा भोगाः किं कुयोमोऽत्र वैशसे ।' ' अज्ञाते पर. तत्वे तु शाश्वते चाक्षयेऽच्युते । व्यापके तु जगन्नाथे नित्यतृप्ते निरञ्जने । इच्छारूपधरे नित्ये शुद्ध बुद्धे सुनिर्मले । ...तावदेवापवर्गस्तु दुर्लभो युगकोटिभिः । तस्माद्यतध्वं येनाशु हृदावासः प्रसीदति ।' (प. २) 'तच्छृणुध्वं मुनिश्रेष्ठः धर्म संसारतारकम् ' (प. ५) 'इदमुक्तं मया ब्रह्मन् ब्रह्मतत्त्वं यथार्थतः । यज्ज्ञात्वा न पुनर्भूयो भवमेष्यसि सङ्कलम्।.......सर्वोपाधिवि. निर्मुक्तं ज्ञानमेकान्तनिर्मलम् । उत्पद्यते हि युक्तस्य योगाभ्यासात्क्रमेण तत् । तेन तत्पाप्यते विष अन्यथा दुर्लभं भवेत् ।' (प. ३८) 'मन्त्राराधनसक्तस्तु तत्सिद्धीनामलोलुपः । भक्तस्तद्धथाननिष्ठश्च तत्क्रियापरमो महान् ।.... ...सदैतचिन्तनाच्छश्चत्तथा पत्राद्यनुग्रहात ।........ शरत्काले जलं यद्वञ्चित्तमेति प्रसन्नताम् । प्रसन्नस्थिरतां याति निस्तरङ्ग इवोदधिः । .... संबोधं च तदाऽऽमोति तज्ज्ञानं परमं मतम् । सैव चित् हृदयाकाशे [देत्यादित्यवत् क्रमात् । तेनाधिगम्यते ज्ञेयं यद्वत्सूर्योदयाजगत् । संबोधो ज्ञेयनिष्ठा सा तदाऽऽयाति शनैः शनैः । तदा समरसत्वं हि सह तेनैव तस्य हि । ज्ञेयज्ञप्तिकरं ज्ञानं क्रमोपेतं च नारद । निर्वाणदमसङ्कीर्णमिदं ते संप्रकाशितम् ।' (प. ३९ ) इति । प्रतिपिपादयिषितेऽस्मिन् प्रधानतमेऽर्थे प्राधान्येन निरूपणीयानां परब्रह्म-मन्त्र--तदाराधनस्वरूपतद्भेदानां मोक्षलक्षणनिःश्रेयसस्य तत्साधनज्ञानस्य च स्वरूपं तत्र तत्र प्रतिपाद्यते । तथा भोगसाधनताप्रकारश्च ।
तत्र ब्रह्मणः स्वरूपमिदमुच्यते-नित्यशुद्धस्वसंवेद्यज्ञानानन्दैकलक्षणमिति । तथा च वचनानि-' आनन्दलक्षणं ब्रह्म सर्वहेयविवर्जितम् । (प. ३३) इति । विस्तरेण चोपवर्ण्यते तस्यैव स्वरूपं 'स्वसंवेधमनौपम्यं
For Private and Personal Use Only