________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लभ्यते । तथाच स्पन्दप्रदीपिकातः प्राक्तनत्वमहिर्बुध्न्यसंहितायास्ततोऽपि प्राक्तनत्वं जयाया गम्यते । इदं च पौर्वापर्यमुत्सर्गतः शतकयोः शतकस्य वा हायनानां व्यवधानमपेक्षेतैव । परितः प्रचारमुपगतमनतिनव्यमेव हि स्वोक्तार्थे आप्तप्रमाणतयाऽन्येत, तथात्वं च नाल्पैयिनैः। एवं च अनुवादकात् स्पन्दपदीपात् दशमे शतके अन्तिमे भागे समुद्भूतात् अन्धमानाऽहिर्बुध्न्यसंहिता प्रायः शतकद्वयव्यवहिता नवमे शतके प्रादुर्भूता स्यात् । तेनैव न्यायेन जया अहिर्बुध्न्यसंहितातः प्रायः शतकद्वयव्यवहिता सप्तमे शतके समुद्भता स्यात् । प्राडरमहाशयस्तुततीयशतकतः पश्चात् पञ्चमशतकात्माक् अहिर्बुध्न्यसंहितायाः मादुर्भावं मन्यते, तत्र च निमित्तमिदं पश्यति-अस्यामहिर्बुध्न्यसंहितायां (प.१०८) सायशास्त्रोद्भवनिरूपणमसङ्गे षष्टितन्त्रं निरूप्यते, यदीयं संहिता पञ्चमशतकतो/चीना स्यात् ईश्वरकृष्णकारिका समुदाहृता स्यात्, तस्मिन् समये हि सा साङ्खयकारिका परितो लब्धप्रतिष्ठा समभवत्, षष्टितन्त्रं च विलीनप्रायमभूत्, इति । एवं सति जयायाः समयस्ततः प्राक्, द्वितीये तृतीये शतके वा समुत्सेक्ष्यः स्यात् । अत्र वयं ब्रूमः षष्टितन्त्रोल्लेखमात्रेण न तथाऽवधारयितुं शक्येत, इह हि यन्मतं यतो मूलात्मभूतं तनिरूपयितुं हीदं प्रकरणं प्रवर्तते, तत्पश्चात्तनायाः प्रसिद्धाया लब्धप्रतिष्ठाया अप्युपेक्षणं युज्येत, अतएव च तस्य तस्य तत्तत्पथमप्रवर्तकस्यैव कपिलहिरण्यगर्भादेर्नामोल्लेखः । तस्मात् न तावतः कालव्यवधानस्य नियतं लिङ्गमस्तीति । न च वयं ब्रूमः-पञ्चमशतकतः पश्चादेवाहिर्बुध्न्यसंहितया संभूतया भाव्यमिति, यदिहावधारकं लिङ्गं न पश्यामः । किन्तु जयातः पश्चाद्भावित्वमात्रं निधीयते एतदनुवादात् । अथास्या जयायाः कालतः परत्वे अहिर्बुधन्यसंहितेव कालतोऽपरत्वेऽवधिभूतं न किञ्चित्सुव्यक्तमुपलभ्यते ।
इदमेव तु मुव्यक्तं संहितेयं जयाभिधा । सप्तमात् ऊस्तशतकात् मागेवाजायतेति यत् ।
जयायाः सारांशः निगूढानपि शास्त्रार्थाननन्योनेयबुद्धयः । स्वयमन्तः पविश्यैव दिदृक्षन्ति विपश्चितः ॥ समीक्ष्य लेशतो वाऽपि सारव्यक्तिं सती मुखे । अन्तः प्रवेषुमिच्छन्ति मुधियः सुगमेष्वपि ॥
For Private and Personal Use Only