________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वन्मयाचार्यसंपादितमभूत, तस्मिनिदानी तत्सान्निध्याधायकमन्त्राराधननिरपेक्षं भक्तजनसमवायमात्रेण परमालादापादको नित्योत्सवपक्षोत्सवादिविधिर्विशेषतः संपाद्यते ।
बहुभिः पात्यमानोऽयं कैश्चिदत्तावलंबनः । पुनर्विलीयते सोऽयं पञ्चरात्रविधिक्रमः ॥
अथ प्रतिनिवृत्य प्रासङ्गिकपरिक्रमणात्मकृतसंहितानुबन्धिन्येव विचारे प्रविशामः।
[अस्या जयायाः समयः] एवं प्राधान्यात् पाश्चरात्रसंहितासु रत्नत्रयतया ख्यायमानासु सात्वतपौष्करजयाख्यासु इयं जयाख्या संहिता कदा प्रवृत्तेत्येतद्विचारयाम:- अनेनैवोत्पलाचार्येण स्पन्दपदीपिकायां जयाया वचनमनूद्यते'प्रोक्तं हि श्रीजयायाम्--तत्वनिर्मुक्तदेहस्य केवलस्य चिदात्मनः । य उदेति महानन्दः सा शक्तिर्वैष्णवी परा॥ (स्पन्दम. प. ११) ( जया. १.९०)। 'निष्कम्पबोधसामान्य ........ व्यवहारेऽखिले स्थितः' (स्पन्दन. प.९) (जया. प. २१६-२१७) । ' एकस्य मन्त्रनाथस्य ........ लक्षसङ्ख्याधिक मुने ।' ( स्पन्दन. प. ३४ ) (जया. प. १३०) ।। ' यस्माद्देवो जगन्नाथः ....... कारुण्याच्छास्त्रपाणिना' इति । (स्पन्दप्र. ५४) (जया. प.६)। तदनया संहितया स्पन्दप्रदीपिकायाः मागेव प्रवृत्तया भाव्यामिति विनिश्चीयते । स्पन्दमदीपिकाकारस्याचार्योत्पलस्य स्थितिः क्रिस्ततः पश्चात्तने दशमे शतक इति प्राडर्महाशयः अहिर्बुध्न्यसंहितोपोद्धाते कथयति । अथ च श्रीयामुनाचार्यत एकपुरुषकालव्यवहितपूर्वतां च तस्य मन्यते । तथा च दशमशतकस्य प्रायः उत्तरार्धे स्पन्दपदीपिकया भाव्यमित्यवगम्यते । किञ्च-अस्यामेव स्पन्दमदीपिकायामहिबुध्न्यसंहिताया वचनमनूयते । 'प्रज्ञामासादमारुह्य .......भूमिष्ठानिव शैलस्थः सर्वान् माज्ञोऽनुपश्यति ।' इति (स्पन्द. प. ४१) (अहिर्बु. प. १४०)। अहिर्बुध्न्यसंहितायां सेयं जयाऽनूयते 'सर्व जयाश्रुतं कार्य तत्तद्वैशेषिक विना ।' इति ( अहि. प. १८३ ) तथा-वर्णसंज्ञाकोशश्च जयादृष्ट प्रकारादनन्य एव पदानामानुपूर्वीभेदं प्रापितोऽहिर्बुध्न्य सं हितायां सप्तदशाध्याये समुप
For Private and Personal Use Only