________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
निबन्धे इदमप्युदाहृतम्--प्रायः क्रिस्ततः पाक् चतुर्थे शतके मौर्यचन्द्रगुप्तसमये भारतदेशं समागतो मेगास्तनीमनामको यवनः शौरसेनीयाः केचन क्षत्रिया वासुदेवसमाराधका आसन्निति कथयतीति । तदिदं तत्कालप्रवृचं वासुदेवाराधनं साचतविधिमूलकं नाम । सर्वमेव देवताराधनं न भोजनशयनादिव्यापारवत्केवलकामनाकृतम्, किन्तु चोदनापाप्तमेव, सा च चोदना सावतविधिरिति व्यवहारपदमभूत, अथ पाश्चरात्रविधिरिति व्यवहारपदमभूत, अथान्यथैव येन केनापि, नात्र किमप्यवधारकं लिङ्गमुपलभ्यते । एवं तु संभाव्यते सात्वतविधिर्वासुदेवाराधनलक्षणः कोऽपि पागासीदिति । सावतो भागवत इति च पयायो । सत्त्वान्-भगवान् तस्यायं विधिः सात्वतो विधिर्भागवतो विधिः। सात्वतो विधिरित्ययं सामान्यनिर्देशो भारते भीष्मपर्वण्यपि समुपलभ्यते-'ब्राह्मणैः क्षत्रियैर्वैश्यैः शूदैश्च कृतलक्षणैः । अर्चनीयच सेव्यश्च पूजनीयश्च माधवः । सात्वतं विधिमास्थाय गीतः सङ्कपणेन यः इति । इदमनेन सिद्धयति-येन विधिना भगवान्वासुदेवः पूज्यः, स भागवतो विधिः, तेन विधिना ये भगवन्तं वासुदेवं पूजयन्ति ते भागवताः, यच्च तेषां मतं तद् भागवतं मतं, तदेतत्रयं क्रिस्ततः पूर्वचतुर्थशतके आसीदिति । तथा चान्ततः सात्वतमिति पारिभाषिकेण नाम्ना पाश्चरात्रमिति संज्ञया वा प्रविततस्य चातुव्यूहपूजाप्रकारावबोधकस्य निबन्धजातस्य मूलभूतं किमपि भागवतविध्यवबोधकं भगवच्छास्त्रं तदनुवर्तिनो वासुदेवाराधकाश्च तदानीमासगिति निष्पन्नम् । एतेन-वासुदेवपूजा प्रथमतः प्रवृत्ता पश्चात् कालेन व्यूहद्वयपूजा पश्चात् कालेन चातुरात्म्यपूजेत्येवं वासुदेवपूजा क्रमाद्विस्तृताऽभूत् । स च चातुरात्म्यावबोधको विधिः पाश्चरात्रमिति शास्त्रनाम च मोक्षधर्मान्तर्गतनारायणीय एवेति नारायणीयसमय एव चातु!हप्रवृत्तिरिति यत्तमहाशयः प्रतक्यते तत्राप्यनिरोधः सिद्धः। तथाहि-क्रमादेवं वितताऽपि वासुदेवोपासनैव सा, उपासनाविधायको विधिरपि भागवतो विधिरेव, तदनुमतं मतमपि भागवतं मतमेव, तनिष्ठाश्च भागवता एव हि, अयं च प्रवादः क्रिस्ततः प्राक्तनचतुर्थशतकतः प्रवृत्तः श्रीशङ्कराचार्ययामुनाचार्यसमयेऽप्यनुवर्तते । पाश्चरात्रमिति संज्ञया व्यवहारे समनन्तरं दृश्यमानेऽपि नार्थस्वरूपे भेदः, प्रथमं प्ररूढ एकः काण्डः शाखाभेदेन वितति प्राप्तोऽपि न ह्यन्यतामेति, एकमेव भवनं प्रथमतोऽल्पपरिमाणेन विनिर्मितं ततः प्रवदितं सौपशिखरादिभिर्न चान्यतामोत । तत् भगवच्छात्र
For Private and Personal Use Only