________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यन्ति । अत्र ब्रूमः-यथा शक्तिविशिष्टशिवोपासना शिवोपासनैव न शक्त्युपासना तदुपासकाश्च शैवा एव न शाक्ताः, तथा संकर्षणादिविशिष्टवासुदेवोपासनाऽपि वासुदेवोपासनैव न सङ्कर्षणाद्युपासना तदुपासकाश्च वासुदेवोपासका एव न सङ्कर्षणोपासकाः, शक्तेरिव शिवोपासने सङ्कर्षणादिव्यूहस्य गुणतया ह्यनुप्रवेशो वासुदेवोपासने, तथा च वासुदेचकशब्दनिष्पत्तिविधानं वासुदेवपूजाप्रत्यभिज्ञापकं चेत्, तत् गुणतयाऽपि सङ्कर्षणादिकमनवलम्बमान केवलवासुदेवपूजाया एव ज्ञापकमिति कथमवधारणं घटेत, सात्वतशास्त्रचोदिता वासुदेवोपासना च गुणतया सङ्कर्षणादिव्यूहमवलम्बमानव, तदिदं विधानं सात्वतशास्त्रप्रवृत्तेः पाणिनिसमसमयतासम्भावनायां लिङ्गं भवितुमर्हत्येव । वासुदेवमात्रोपासनासद्भावज्ञापकतापक्षेपि 'यज्वभिर्यज्ञपुरुषो वासुदेवश्व सात्वतैः' इति वचनानुसारेण वासुदेवोपासकत्वेन प्रसिद्धाः सात्वता एव वासुदेवका इति व्यवहारगोचराः पाणिनेः समयेऽप्यासनित्यविगीतम् ।
अथ शिलालेखविमर्शतश्चैवं निश्चीयते-श्रीमद्भिः R. G. भाण्डारकरमहाशयैर्वैष्णवादिमतप्रचारसमयं परिशीलयद्भिर्वासुदेवपूजायाः प्राचीनतानिरूपणाय केचनांशा निरूपितास्ततः समुद्धृत्येह केचन प्रदर्श्यन्ते । 'राजपुतानाख्ये देशे घोसुण्डिनामके नगरे समुपलब्धे शिलालेखे सङ्कर्षणवासुदेवयोमन्दिरस्य परितः पाकारो निर्मित इति लेखः परिदृश्यते, अयं च लेखः क्रिस्ततः शतद्वयवर्षतः प्राक्तनः ।' 'नानाघाट इत्यत्र ग्रामे गुहायां दृश्यमाने शिलालेखे सङ्कर्षणवासुदेवशब्दघटितो मङ्गलश्लोकः समुपलभ्यते । अयं च लेखः क्रिस्ततः अव्यवहितपूर्वशतके संजातः।' 'वेसनगर इत्यस्मिन् ग्रामे समुपलब्धे शिलालेखे वासुदेवस्य तृप्तये गरुडध्वजस्तम्भः हेलियोदोरा इत्यनेन भागवतेन प्रतिष्ठित इति लिखितमस्ति, अयं च क्रिस्ततः पूर्व शतकद्वयान्तराळेऽत्र (द्वितीयशतकस्य प्रथमभागे) समागत इति विज्ञायते, वासुदेवपूजा तत्पूजकानां भागवता इति च संज्ञा तदानीमासीत '( R. G. Bhandarkar's Vaishnavism, Saivism & other minor religions of India) इति । एतेन लेखत्रयेण क्रिस्ततः प्राक्तनातृतीयशतकत उत्तरोत्तरं भागवतमतमूलपाश्चरात्रप्रचारः संलक्ष्यते । वासुदेवसङ्कर्षणव्यूहभेदो वासुदेवतृप्त्यर्थ गरुडध्वजप्रतिष्ठापनं तत्प्रतिष्ठापकस्य भागवतसंज्ञा च पाश्चरात्रप्रक्रियां ज्ञापयति । अथच-तैर्महाशयैर्वासुदेवपूजाप्रचारस्य क्रिस्ततः प्राक्तनचतुर्थशतकेऽपि स्थितिं निरूपयद्भिस्तत्रैव
For Private and Personal Use Only