________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रात्रस्य प्रवृत्तिः क्रिस्तपथमशतके स्यादेवति विज्ञायते । परितः प्रचारं गतस्यैव विचारपदाहता, प्रचारश्च नाल्पैवर्षेः । तत् शतकद्वयव्यवधानं योग्यम् । इदमत्रोच्यते-योगाचारमतसमनन्तरता ब्रह्मसूत्रे कस्मात्तक्यते,विज्ञानवादपतिषेधादिति । सत्यं विज्ञानमात्रवादो निरस्तो नाम, तत्र च मूलं सुगतवचनमेव, शाक्यमुनेरेव हीयं देशना, सर्व क्षणिकमिति स्वप्नवदाभासमात्रमिति सर्व शून्यमिति च, तदेतत्रयं सूत्रकारेण निरस्तम् । वैभाषिकाचाहतवादभेदेऽपि मूलं शाक्यमुनेत्रिविधोऽयमुपदेश एव । व्याख्यातारस्तु योगाचारादर्वाची. नतया स्वदृष्टया वैभाषिकं मतं निरस्यति योगाचारमतं निरस्यति माध्यमिकमतं निरस्यतीत्यवतारयन्ति । नैतावता मूत्रेण योगाचारसमयतोऽर्वाचीनेनैव भाव्यमित्यस्ति नियमः । तत्सूत्रे क्रियमाणं विज्ञानमात्रवादनिरसनं न योगाचारसमनन्तरभावित्वे लिङ्गं भवितुमर्हति । तत् ब्रह्मसूत्रसमयः क्रिस्ततः पूर्वमेवेत्यपि संभावना घटेत ।
किञ्च-पूर्वमीमांसाकारेण जैमिनिना उत्तरमीमांसाकारेण बादरायणेन व निजनिजकृतौ (पूर्वोत्तरमीमांसयोः) बादरायणः जैमिनिरिति नामनिर्देशपूर्वकमन्योन्यमतानुवादादुभयोरनयोः समकालिकतां संभावयतां दृष्टया ब्रह्मसूत्रस्यापि क्रिस्ततः प्राक्कालिकता संभाव्यते-पूर्वमीमांसापवर्तको जैमिनिर्हि क्रिस्ततः प्रागेवाभूत् । तथा पाणिनेः समयेऽपि वासुदेवाराधका आसनिति विज्ञायते यत् वासुदेवो भक्तिः उपास्योऽस्येत्यर्थे वासुदेवकशब्दं निष्पादयन् 'वासुदेवार्जुनाभ्यां वुन्निति सूत्रेण वासुदेवशब्दात् वुन्प्रत्ययं विदधाति । अत्रास्य वासुदेवशब्दस्य न वसुदेवसूनुत्वं प्रतिनिमित्तम्, तथा सति 'गोत्रक्षत्रियाख्येभ्य ' इति वुविधानादेवोक्तार्थे वासुदेवकशब्दनिष्पत्तेर्वासुदेवशब्दाद्वन्विधानस्यास्य वैयर्थ्यप्रसंगः। तदत्र वासुदेवशब्दः परमात्मान परिभाषया प्रवर्तते । सा च परिभाषा विष्णुपुराणे स्पष्टा, पतञ्जलिमहाभाष्ये वुन्विधानवैयर्थ्य परिहरन्भगवतः संज्ञेयमित्याह । तथा च पाणिनेः समये भगवतो वासुदेवस्याराधका अभूवन्निति सिद्धम्, तेन वासुदेवाराधनप्रधानं भगवच्छास्त्रं तदनुयायिनो भागवताश्च पाणिनिसमयेऽ प्यासन्निति विज्ञायते । पाणिनेः समयः क्रिस्ततः प्राक्तने चतुर्थशतके इति तु विमर्शकजनविनिचितम् । ततः प्रागेवेत्यपरे । केचनानेन सूत्रेण केवलवासुदेवपूजायाः पाणिनिसमसमयतां पश्चादेव चातुरात्म्योपासनप्रवृत्तिं च प्रत
For Private and Personal Use Only