________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुतो न विवक्षा । न हि सतः सर्वस्य सर्वत्र विवक्षा दृष्टा । नन्वप्रकृतस्य न स्याद्विवक्षा । किं व्यूहविचारः प्रकृतो गीतार्थे, कर्मयोगो ज्ञानयोगो भक्तियोगश्चेति त्रयमेव तु प्रतिपिपादयिषितं गीतायाम् । त्रिष्वेतेषु कुत्र व्यूहभेदनिरूणस्यावश्यकता । व्यूहभेदोपासने सत्यस्मिन् प्रकरणे तन्यरूपायज्यत्, अनिरूपणान्न तत्तदेति हनुमेयम् । भक्तियोगप्रकरणे भजनीयस्य स्वरूपं भजनस्य परमप्रेमग त्वमनन्यता चेति निरूपणीयं निरूपितं नाम । न ह्युपासनापकारभेदनिरूपणं तत्र प्रक्रान्तम्, येन तत्र तदनिरूपणेन तदभावः, प्रक्रान्ते द्रव्यनिरूपणे दशमस्यानिरूपणात् दशमद्रव्याभाव इव सिद्धयेत् । कर्मयोगज्ञानयोगप्रकरणयोस्तु सुतरां न तत्मकृतम् ।
नैककालव्यवहितं पौर्वापर्य तयोस्तु यत् । प्रतय॑ते परैलिङ्गैर्न शङ्का तत्र नोऽधुना ॥
गीतारचनातो नारायणीयाध्यायस्याक्तिनत्वेऽपि ब्रैस्तचतुर्थशतकतो ( A. D. 400) नार्वाचीनता, यदस्य क्रमादुपचयं प्राप्ततया संभाव्यमानस्य भारतस्याधुनापरिदृश्यमानानुपूर्वीकस्य समयः क्रैस्ततः पूर्व तृतीयशतके सद्भावं सि. वि. वैद्यमहाशया मन्यन्ते । सर. जारज् ग्रियर्सन्महाशयस्तु क्रैस्तद्वितीयचतुर्थशतकयोरन्तराले ( A. D. 200 to 400) संपत्तिं प्रतर्कयति । विटर्निटस्महाशयस्तु क्रिस्ततः पूर्व चतुर्थशतकस्य पश्चात्तनचतुर्थशतकस्य चान्तराले ( B. C. 400-A. D. 400 ) निष्पत्ति मन्यते । तथा चानेन पञ्चरात्रस्य ततः प्राक्तनता तु सिद्धा।
ननु नारायणीयमिदं मोक्षपर्वान्तर्गतं भीष्मयुधिष्ठिरसंवादानुवादरूपं संवादगोचरीभूतस्य पञ्चरात्रस्य संवदतोः समये सद्भावं कुतो नावगमयेत् । सत्यम् । परोक्षे संवादे येषां न विस्रम्भः न तान् प्रतीदं वचनं समयनिर्णयाय प्रभवेत् । श्रूयमाणं तु वचनमपरोक्षगोचरं स्वस्मात् पूर्वकालिका गमयेत् । नाधिकम् । तदनया दृष्टया विचार्यते ।
किश्चेदं विज्ञायते-यच्छारीरकमीमांसायाः मागेवास्य प्रवृत्तिरिति, यत् पाञ्चरात्रविचारमधिकृत्यैकमधिकरणं शारीरकमीमांसायां प्रवृत्तं प्रदृश्यते । तत्र क्षणिकवादविज्ञानवादशून्यवादानां निरासात्तस्य योगाचारमतप्रवृत्त्यनन्तरकालिकतां मन्वानैः कैश्चित्सेयं शारीरकमीमांसा क्रिस्ततः पश्चात् प्रथमशतकचतुर्थशतकयोरन्तराले समुद्भूता स्यादिति समुत्प्रेक्ष्यते । तदृष्टयनुरोधेन पाश्च
For Private and Personal Use Only