________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासुदेवस्वरूपनिरूपकधर्मावबोधकं हि भगवत्पदम्, स च धर्मः पाङ्गण्यवैशि
यम्, तदेव च भगवत्पदप्रवृत्तिनिमित्तम्, 'ज्ञानशक्तिवलैश्वर्यवीर्यतेजांस्यशेषतः। भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः' इति हि निर्वचनम् । सकलजगदुपादानं ज्ञानानन्दमयं परं ब्रह्मैव पाडण्यविशिष्टतया वासुदेवात्मना पसु गुणेषु क्रमादैकैकगुणयुग्मवैशिष्टययोगेन संकर्षणाद्यात्मनोपासकानामुपासनापदमधिरोहति, तद्युक्तं भगवच्छब्दस्य वासुदेवासाधारणविशेषणसमर्पकत्वम् । अत एव द्वादशाक्षरमहामन्त्रे भगवते वासुदेवायेति विशेष्यविशेषणभावेन निर्देशः । वासुदेवोपासनपकारः पञ्चरात्रप्रसिद्ध इति तन्मतस्य भागवतं मतमिति तनिष्ठानां भागवता इति च निर्देशः सुसङ्गतः । अवगमयति वेदं वचनं पञ्चरात्रिकाणां वासुदेवः समाराध्य इति–' यचभिर्यज्ञपुरुषो वासुदेवश्च सात्वतैः । वेदान्तवेदिभिर्विष्णुः मोच्यते तं नतोऽस्म्यहम् ।।' इति (विष्णुपु० अं५ अ० १७), सात्वताश्च पाश्चरात्रिकाः ।
[ पाञ्चरात्रसमयविचारः] इदं च पञ्चरात्रं कदा प्रवृत्तमित्यतद्विचार्यते । यद्यपि-महाभारते भीष्मपर्वणि मोक्षधर्म च पाश्चरात्रप्रशंसा प्रदृश्यते, तव सामान्यतो भारततः पागेव पञ्चरात्रं प्रवृत्तमिति व्यक्तं विज्ञायते । अथापि भारतरचनाया नैकः समयः, वनमिव कालेन क्रमादुपचयं प्राप्तं हि भारतमित्याधुनिकैर्विमर्शदृष्टया विनिश्चितम् । तत् समयोऽनेनास्य विनिश्चेतुं न शक्येत । स्यादेवम् -अथाप्येतदानुपूर्वीकस्य भारतस्य यः समयः समुत्प्रेक्ष्येत ततः प्राक्तनता त्वनेनास्य सिध्यति । अत्र केचन महाशया गीतारचनासमयतो नारायणीयाध्यायरचनासमयस्यानेककालव्यवधाननियतां पश्चात्तनतां निरूपयन्तस्तत्र लिङ्गमिदमाहुः-गीतायां व्यूहोपासना न निरूप्यते नारायणीये तु सा निरूप्यते इति । स्यानाम सिषाधयिषितं पश्चात्तनत्वम्, यत् भारतं क्रमशःकालेनोपचयं गतमित्यस्यां संभावनायां न किञ्चिविरुद्धं लिङ्गमुपलभ्यते, परं त्वत्र यल्लिङ्गं तैरुत्प्रेक्ष्यते, तत्र किञ्चिद्विचार्यते । गीतायां व्यूहोपासनाऽनिरूपणमात्रेण नारायणीये तन्निरूपणेन च तथाविधं कालव्यवधानं कथं नाम त]त । नन्वनिरूपणात् तदानी व्यहोपासना नासीत्, नारायणीये निरूपणात्तत्समये साऽऽसीत् । नैतत् । कथं तदनुक्तिमात्रं तदसम्भव ज्ञापयेत्, सतोऽप्यर्थस्यानुक्तिरनेकेषु दृष्टा, उक्तौ हि विवक्षा कारणम् । सति
For Private and Personal Use Only