________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कीर्तनपूर्वकं निर्दिशति । इत्यं च पाश्चरात्रे श्रुतिरिति संहितेति द्विविधो विभाग उत्पलाचार्याभिमत इति सिद्धम् । एकायनशाखेत्याचार्याणां निर्देशः । पञ्चरात्रश्रुतिः पञ्चरात्रोपनिषदिति चोत्पलाचार्यस्य निर्देशः । तस्मादेवजातीयकेषु वचनेषु सात्त्वतसमयनिष्ठानां श्रुतित्वव्यपदेशश्चिरादनुवर्तते । कल्पयित्वा वचनान्ययं निर्देश इति तु नोलेक्षितुं क्षमम् । शैवतन्त्रे ह्ययं निर्देशः । ना. प्यनेकभाचीनबुधजनोदाहृतवचनेषु सा संभावना युक्ता, माक्तनान्येव वचनानि तैर्यथादर्शनमुदाहृतानि, परमियं तु संभावना स्यात्, स्वसमयश्रदातिशयात् केषुचित् श्रुतित्वव्यपदेश इति, आस्तां नाम तदिदमुत्सेक्षणम्, न वयं तेषां वचनानां ऋगादिसाधारणं श्रुतित्वं समर्थयितुमिदानी प्रवर्तामहे, इदमेव तु वयमधुना ब्रूमः, संहिताविभागतः पाक्तनेन केनचिद्विभागेन सात्वतसमयसमुपसेव्येन भाव्यमिति ।
येयं त्रयी श्रुतिः ख्याता ऋग्यजुःसामलक्षणा । तां भारतादेः प्राचीनां मानुषी कालभेदतः॥ क्रमाजातां प्रपश्यन्ति बहवोऽद्य विमर्शकाः । नापौरुषेयी निर्दुष्टां न च निलेश्वरोदिताम् ।। प्रवादलक्षणादन्यः को विशेषः श्रुतित्वतः । तत् संहिताभ्य एतेषां प्राचीनत्वेन हेतुना ॥ पाश्चरात्रश्रुतिरिति प्रवादो ननु युज्यते ।
या चेयं विप्रतिपत्तिः पाञ्चरात्रं किं प्रमाणमुत न, यदि प्रमाणं किमशतः किं सर्वत इति । तत्रापि न वयमपतरामोऽधुना, अप्रकृतो हि स विचारः।
अपि श्रुतीनां मामाण्यमिष्टं गुणपरीक्षया । अथ कः साधितेनार्थः प्रामाण्येन श्रुतेरिव ।।
इदं चैकायनमूलं पाश्चरात्रमतं भागवतमतमिति नाम्ना ख्यायते, तनिष्ठाश्च भागवता इति नाम्ना, तथा चागमपामाण्ये श्रीमद्यामुनाचार्यैः 'तदिह भागवतं गतमत्सरा मतमिदं विमृशन्तु विपश्चितः' इति भागवतमतशब्देनास्य निर्देशः कृतः । श्रीमच्छङ्कराचार्यैः शारीरकमीमांसाभाष्ये पञ्चरात्रमतविचारप्रकरणे 'यदपि भागवता मन्यन्ते' इति पाश्चरात्रमतनिष्ठानां निर्देशः कृतः, ईदृशे च निर्देशे निमित्तमेतत्, भगवान् वासुदेवः प्राधान्येन समाराध्यतयाऽभिमत इति। ननु वासुदेवमतमिति भाव्यम्, कयं भागवतं मतमिति ।
For Private and Personal Use Only