________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१. ३०)
परिकरसाधनम् विलिख्य चक्रराण्मन्त्र.... वाथ कुङ्कमम् । चक्रमस्मीति वै बुद्ध्या स्थितमात्मनि नारद ।। ५४ ।। समाक्रम्य तु चक्राक्षं बद्धपद्मासनो विशेत् । अपेल्लक्षत्रयं मन्त्री चक्राकां च महौषधिम् ॥ ५५ ॥ जुहुयाल्लक्षमानेन चक्रलक्षस्थितो व्रती । चक्राङ्के तु शुभे कुण्डे त्रितयं जुहुयाद्धृतम् ॥ ५६ ॥ होमान्ते मुनिशार्दूल चक्रमाक्रम्य साधकः । जपेद्धथानस्थितो लक्षं चक्रमुत्पतते ततः ।। ५७ ॥ प्रयात्यर्कपदं वेगाद्गृहीत्वा साधकं तु वै । लोकान्तरेषु सर्वेषु नयत्यविरतं बलात् ॥ ५८ ॥ न याति यदि वै मोहं मन्त्रसत्वक्षयान्मुने । चक्रमस्मीति वै बुद्धया वासना यदि वतेते ॥ ५९॥ मन्त्र्यस्मिन्मानुषे लोके नास्ति तद्यन्न साधयेत् । कर्मणा मनसा वाचा ध्यानासंस्मरणात्तु वै ॥६० ॥ इत्येतच्चक्रमन्त्रस्य विधानमथ नारद ।
[गदामन्त्रसाधनप्रकारः] वक्ष्ये गदाख्यमन्त्रस्य तद्वर्णस्यासने न्यसेत् ॥ ६१ ॥ 'लरौ पूर्वोदितं सर्वमूर्धेऽङ्गनिचयो भवेत् । न्यासं कृत्वाऽचनं सम्यङ्मनसाऽथ बहिर्द्विज ॥ ६२ ।। गदाष्टकावृतं कुयोत्स्फुरन्तं मध्यतोऽम्बुजम् । हेमामं षड्दलं तत्र गदामन्त्रं तु पूजयेत् ॥ ६३ ॥ होमं कृत्वा ततो यायाद्गुहां विष मनोरमाम् । सत्रायुताष्टकं मन्त्र जपेत्तदनु होमयेत् ॥ ६४ ॥ घृताप्लुतं समिल्लक्षं रक्तचन्दनसंभवम् । होमान्ते तु गदामन्त्र: मुसिद्धि संप्रयच्छति ॥६५॥ यान्यभीष्टानि मनसो यात्मनश्च परस्य वा । कृत्वादौ तु गदा मन्त्री द्विहस्तां चन्दनोत्थिताम् ॥ ६६ ॥ प्रपूज्य तां समादाय कृत्वाष्टशतमन्त्रिताम् ॥
घोरान्दुष्टग्रहान्हन्यान्मन्त्री शिरसि ताडनात् ॥ ६७ ॥ 1 रलौ A
For Private and Personal Use Only